________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
म अध्यायः
चिकित्सितस्थानम् ।
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् । पिपासां मृत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति ॥ अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् 1 अस्य प्रयोगाच्चावनः सुवृद्धोऽभूत् पुनर्युवा ॥ मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम् । स्त्रीषु प्रहषं परमग्निवृद्धिं वर्णप्रसाद पवनानुलोम्यम् ॥ रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात् । जराकतं रूपमपास्य सव्र्व्वं बिभर्त्ति रूपं नवयौवनस्य ॥ २५ ॥ इति च्यवनप्राशः । थामलकहरीतकीनाम् आमलकविभीतकानाम् ग्रामलकहरीतकीविभीतकानां वा पलाशत्वगवनद्धानां मृदावलिप्तानां कुकूलस्विन्नानामकूलकानां पलसहस्रमुदूखले संपोथ्य दधिघृतमधुपललतैलशर्कर। संप्रयुक्तं भक्षयेदनन्नभुग् यथोक्तेन विधिना ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२२८१
ܚ
मात्रां प्रयुञ्जीत । या मात्रा अशिता प्रथमभोजनोपरोधं न करोति तां मात्रां प्रयुञ्जीत । शेषं स्पष्टार्थम् ।। २५ ।। इति च्यवनप्राशः ।
1
गङ्गाधरः-- अथामलकहरीतकीनामित्यादि । आमलकहरीतकीनां समानसंख्याफलानाम् । अथवामलक-विभीतकानामथवामलक- हरीतकी-विभीतकानां पलाशवृक्षवल्कलेन बद्धानां मृत्तिकया लिप्तानां कुकूले बहुक्षुद्रच्छिद्रहण्डिकायां वारिपूर्ण हण्डिकोपरिघृतायां स्थापितानामधस्तादग्नि प्रज्वाल्य स्विन्नानां सिरास्थिहीनीकृतानां छायाशुष्काणां पलसहस्रमुखले संकुव्य कृतं चूर्णं तत्समानदधिघृतमधु - तिलतैल-शर्कराभिः संयुक्तं भक्षयेव यथाग्निवलं भक्षयेदनन्नक् मत्स्यण्डिका खण्डसंहतिः । अल पट्पलत्वेन समयोरपि मधुसर्पिषोद्रव्यान्तरयुक्तत्वेन क्षविरुद्धम् ॥ २५ ॥
चक्रपाणिः -- कुकूलकः करीषाग्निः । अकुलकानामिति अनस्थाम् । दध्यादीनामल मानं नोक्तम्, तेन प्रधानस्य चर्णस्य दध्यादिभिर्मिलितैः समानमानत्वम् । पललं तिलचूर्णम्, किंबा प्रत्येकमेव