________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसायनपादः १
२२८०
चरक-संहिता। एषां पलोन्मितान् भागान् शतान्यामलकस्य च । पञ्च दद्यात् तदैकध्यं जलद्रोणे विशचयेत् ॥ ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम् । तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ॥ पलद्वादशके भृष्ट्रा दत्त्वा चार्द्धतुलां भिषक् । मत्स्यण्डिकायाः पूताया लेहवत् साधु साधयेत् ॥ षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत् । चतुःपलं तुगाक्षीर्य्याः पिप्पलीद्विएलं तथा ॥ पलमेकं निदध्याच्च त्वगेलाएत्रकेशगत् । इत्ययं च्यवनप्राशः परमुक्तो रसायनः॥ कासश्वासहरश्चैव विशेषेणोपदिश्यते।
क्षीणक्षतानां वृद्धानां बालानाञ्चाङ्गवर्द्धनः॥ केउयाठों टीति लोके। एषां द्रव्याणां प्रत्येकं पलपरिमिता भागा आमलकस्य गुड़कानां पञ्चशतानि वस्त्र बद्धा जलद्रोणे चतुःपष्टिशरावजले दत्वा सर्वम् ऐकथ्यं विपाचयेत्। एतान्योषधानि गतरसानि पादावशेषे निर्गतरसानि भवन्तीति ज्ञाखा तं रसं तच्च स्विन्नमामलकमुद्ध त्य वस्त्रण संघृष्य निष्कुलं सिरास्थिरहितं कृखा मिलिततैलसर्पिषोद्वादशपले भृष्टा; मत्स्यण्डिकाया विपुलभाजने स्थितगुडस्य मध्ये स्वयं दृढ़ीभूतरूपायाः पूताया अर्द्धतुलां तस्मिन् रसे गोलयित्वा ; वस्त्रपूतं तं रसं कृखा तस्मिन् भृष्टे खामलके दत्त्वा लेहवत् साधु साधयेत् । लेहीभूते तस्मिंस्तुगाक्षीर्याश्चतुःपलं पिप्पल्याश्चर्ण द्विपलं खगेलातेजपत्रनागकेशराणां चतुणां मिलिखा समभागेन पलमेकं प्रत्येक कर्षमानं प्रक्षिपेत् । प्रक्षिप्य सम्यगालोड्यावतारयेत्। इत्येवं सिद्ध शीते मधुनः षट्पलं दत्त्वा सम्यङ मेलयेत् । इत्ययं च्यवनप्राशो नाम परं रसायनम् उक्तम् कासादिपु शस्तश्च। ततः कुटौं प्रविश्य यथोक्तविधिना रसायनस्यास्य
काकनासा वासाफलका, काकतुण्डक इत्यन्ये । गतरसत्वमिह द्रव्याणां चतुर्भागस्थितजले भवति । निष्कुलमिति निरस्थि। तैलसर्पिषोरिति समासनिर्देशाभाभ्यामेव द्वादश पलानि पृथक पृथक ।
For Private and Personal Use Only