________________
Shri Mahavir Jain Aradhana Kendra
१ अध्यायः }
www.kobatirth.org
चिकित्सितस्थानम् । भवन्ति चात्र । इदं रसायनं ब्राह्म महर्षिगणसेवितम् । भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः ॥ कान्तप्रजो ना सिद्धार्थचन्द्रादित्यसमद्युतिः । श्रुतं धारयते सत्वमार्षञ्चास्य प्रवर्त्तते ॥ धरणीधर सारश्च वायुना समविक्रमः । स भवत्यविषश्चास्य गात्रे सम्पद्यते विषम् ॥ २४ ॥ ब्राह्मरसायनं द्वितीयो योगः । २ ।
1
许
Acharya Shri Kailassagarsuri Gyanmandir
विवाग्निमन्थश्योनाकं काश्मयः पाटलिर्बला । पर्णाश्चतस्रः पिप्पल्यः श्वदंष्ट्रा वृहतीद्वयम् ॥ शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु । अभया सामृता ऋद्धिर्जीवकर्षभको शटी ॥ मुस्तं पुनर्नवा सैला मेदे चन्दनमुत्पलम् । विदारी वृषमूलानि काकोली काकनासिका
n
गुणान् समश्नुते । तान् गुणानाह - भवन्तीत्यादि । इदमित्यादिनास्य रसायनस्य गुणाः ।। २३ । २४ ॥
इति द्वितीय ब्राह्मरसायनयोगः । २ ।
गङ्गाधरः-- विल्वाग्निमन्थेत्यादि । अमन्थो गणिकारिका । काश्मय गाम्भारी, पर्ण्यश्चतस्रः शालपर्णी पृश्निपर्णी मुद्रपर्णी माषपर्णी; शृङ्गी कर्कटशृङ्गी, तामलकी भूम्यालकी, मेदे मेदा महामेदा च काकनासिका
२२७६
यथोक्तान् गुणानिति पूर्व्वप्रयोग फलश्रुतिपठितान् । धरणीधरसार इति धरणीधराः पर्व्वताः, तेषां सारो लोहम्, तद्वत्सार इत्यर्थः । अविषमिति अविषमविकारि ॥ २३ ॥ २४ ॥
चक्रपाणिः - पश्चत इति शालपर्णी पृश्निपर्णी मुद्गपर्णी माषपर्णी । तामलकी भूम्यामलको ।
कान्तः प्रजानामिति च पाठो दृश्यते ।
For Private and Personal Use Only