________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्यायः चिकित्सितस्थानम् ।
२७५३ कंशे तोरेचरसयोः काश्मय्येऽष्टगुणे रसे। कार्षिकैर्जीवनीयैश्च सर्पिःप्रस्थं विपाचयेत् ॥ , .. वातपित्तोद्भवं क्षिप्रमपस्मारं नियच्छति । तद्वत् काशविदारीनु-कुशक्काथशृतं घृतम् ॥ १५ ॥ मधूकद्विपले कल्के द्रोणे चामलकारसात् । तद्वत् सिद्धं घृतप्रस्थं पित्तापस्मारभेषजम् ॥ १६॥ अभ्यङ्गः सार्षपं तलं वस्तमूत्रे चतुर्गुणे। सिद्धं स्याद गोशकुन्मूत्र : स्नानोत्सादनमेव च ॥ १७॥
गङ्गाधरः-कश इत्यादि। गव्यक्षीरस्य कंशे इक्षुरसस्य च कंशे काश्मय्ये काश्मरीमूलकाथेऽष्टगुणे जीवनीयदेशभिः प्रत्येकं कार्षिकैः कल्कः पुराणगव्यसपिःप्रस्थं विपचेन्। तद्वदित्यादि। काशादीनां चतुर्णां मूलकायें चतुगुणे शृतं पक्कमकल्लं घृतं तद्वत् वातपित्तोद्भवम् अपस्मारं क्षिप्रं नियच्छति। वातोद्भवं पित्तोद्भवञ्चापस्मारम् ॥१५॥
गङ्गाधरः-मधूकेत्यादि। मधूकसारस्य द्विपले कल्के आमलकीरसाद द्रोणे सिद्धं घृतप्रस्थं तद्वत् वातपित्तोद्भवमपस्मारं क्षिप्रं नियच्छति, विशेषात् पित्तापस्मारभेषजं भवति ॥१६॥
गङ्गाधरः-अभ्यङ्ग इत्यादि। वस्तमूत्रे छागमूत्रे चतुगुणे कल्कं विना साषपं तैलं सिद्धं प्रकरणादपस्मारिणोऽभ्यङ्गः स्यादवं गोशकद्भिरुत्सादनं गोमूत्रैः स्नानमपस्मारिण इति ॥१७॥
चक्रपाणिः-कंस इत्याढ़के। काश्मयं इति गम्भारीभवे रसे । रसे इति क्वाथे। तद्वदित्यनेन पूर्वयोगफलश्रुतिं दर्शयति ॥ १५ ॥
चक्रपाणिः-तद्वत्सिद्धो घृतप्रस्थः इत्यनेन पूर्वयोगोक्त क्षिामित्याकर्षति, तेन क्षिप्र पित्तापस्मार इति फलति ॥ १६॥
चक्रपाणि:-अभ्यङ्ग इत्यादिना अकल्कमेव तैलं पक्तव्यम् । गोशकदित्यादी गोशकृतोत्सादनं गोमूत्रेण च योग्यतया स्नानम् ॥ १७ ॥
For Private and Personal Use Only