SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७५२ चरक-संहिता। [ अपस्मारचिकित्सितम् वचाशम्पाककैटर्य-वयःस्थाहिङ्गचोरकैः। सिद्धं पलङ्कषायुक्तं वातश्लेष्मामयापहम् ॥ १२ ॥ घृतं सैन्धवहिङ्गभ्यां वार्षे वास्ते चतुर्गुणे। मूत्र सिद्धमपस्मार-हृदग्रहायासनाशनम् ॥ १३ ॥ तैलप्रस्थं घृतप्रस्थं जीवनो : पलोन्मितः। क्षीरद्रोणे पचेत् सिद्धमपस्मारविनाशनम् ॥ १४ ॥ द्रव्याणि कषमात्राणि पिष्ट्वा पुराणगन्धसर्पिषः प्रस्थे क्षिपेत्, तैः तं सपिषः प्रस्थं पचेत् । तत्सर्पिः समैर्गोशकृद्रसोदध्यम्लैर्गोक्षीरंगोमूत्रैश्च पचेत् ॥१॥ महापञ्चगव्यघृतम् ॥ गङ्गाधरः--वचेत्यादि। कैटय्य कट्फलं, वयःरथा विभीतकी, चोरकः स्थलजचोरपुष्पी, पलकृषा गोक्षुरा। एभिः कल्कैः सिद्धं पुराणं गव्यं घृतमित्यनुवर्तते ॥१२॥ ___ गङ्गाधरः-घृतमित्यादि। सैन्धवहिङ्गभ्यां पादिकाभ्यां - कल्काभ्यां चतुर्गुणे वार्षे वृषस्य मूत्रे वास्ते च छागस्य मूत्रे मिलिते चतुगुणे सिद्ध पक्वं घृतमिति ॥१३॥ गङ्गाधरः-अथ यमकस्नेहमाह-तैलप्रस्थमित्यादि। तिलतैलस्य प्रस्थं पुराणगव्यघृतस्य च प्रस्थं मिश्रीकृत्य यमकं जीवनीयैदशभिः प्रत्येकं पलोन्मितः क्षीरद्रोणे पचेत् ॥१४॥ नोलिका, शम्पाक आरग्वधः। द्विपलं प्रत्येकं दशमूलादीनां, तत् प्रतिपादितमेवोन्मादे। निचुलो हिजलः, श्रेयसी हस्तिपिप्पली। द्व शारिवे इति श्यामालतानन्तमूला ॥ ११॥ __चक्रपाणः- कैटयं पार्वतो निम्बः। वयःस्था गुडूची। वातश्लेष्मात्मक इति द्वन्द्वापस्मारा निर्देशाच्च वातात्मके श्लेष्मात्मके च ज्ञेयम् । अन्ये तु. गुल्मवदनुक्तमपि प्रकृतिसमसमवायारब्धद्वन्द्वजवातश्लेष्मात्मकम् अपस्मारं वदन्ति ॥ १२ ॥ चक्रपाणिः-वाचे वास्ते इति वृषे छागे मूत्रे पचेत्। अत्र च ययपि "स्त्रीणां तीक्ष्णं गुरु मूत्रं न तु पुसां तथाविधम्। पित्तांशिकाः स्त्रियो यस्मात् सौम्यास्तु पुरुषाः स्मृताः' इत्यनेन स्त्रियो मूत्रं प्रशस्तमुक्तम् । तथापीहाविशेषपरिग्रहात् पुलिङ्गयोरेव मूत्रं यौगिकमिति ॥ १३ ॥ चक्रपाणिः-तैलप्रस्थमित्यादौ पलोन्मितैः कल्कैरिति । द्रवस्थाने क्षीरस्व विद्यमानत्वात् ॥१४ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy