________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्यायः
१०म अध्यायः] चिकित्सितस्थानम् ।
२७५१ ब्रह्मोरसे वचाकुष्ठ-शङ्खपुष्पीभिरेव च। पुराणमाज्यमुन्मादयमापस्मारपापनुत् ॥ १०॥ द्वे पञ्चमूल्यौ त्रिफला रजन्यौ कुटजत्वचम् । सप्तपर्णमपामार्ग नीलिनी कटुरोहिणीम् ॥ शम्पाकं फल्गुमूलञ्च पौष्करं सदुरालभम् । द्विपलानि जलद्रोणे पक्त्वा पादावशेषिते ॥ भार्गी पाठा त्रिकटुकं त्रिवृता निचुलानि च । श्रेयसीमाढकों मूवी दन्ती भूनिम्बचित्रको ॥ व शारिवे रोहिषश्च भूतीकं मदयन्तिकाम् । क्षिपेत् पिष्टाक्षमात्राणि तैः प्रस्थं सर्पिषः पचेत् ॥ गोशकुद्रसदध्यम्ल-क्षीरमूत्रैश्च तत्समः। पञ्चगव्यमिति ख्यातं महत् तदभृतोपमम् ॥ अपस्मारे ज्वरे कासे श्वयथावुदरेषु च । गुल्मार्श पाण्डुरोगेषु कामलायां हलीमके॥ शस्यते घृतमेतत् तु प्रयोक्तव्यं दिने दिने। अलक्ष्मीग्रहरक्षोघ्नं चातुर्थकविनाशनम् ॥ ११ ॥
महापञ्चगव्यं घृतम् । गङ्गाधरः-ब्रह्मीरस इत्यादि। ब्रह्मीरसे घृताच्चतुर्गुणे वचादिभिः कल्क घृतात् पादिकैः पुराणं गव्यमाज्यं सिद्धमुन्मादादिनुत् पिबेत् ॥१०॥ ब्रह्मोघृतम् ॥
गङ्गाधरः-द्वे पश्चमूल्पावित्यादि। द्वे पञ्चमूल्यौ प्राधान्याद वृहत्पञ्चमूलीस्वल्पपञ्चमूल्यौ। त्रिफला पथ्याक्षधात्रयः। रजन्यो द्वे । शम्पाकस्य फलमध्यम् । फल्गुमूलं कोठोडम्बरमूलम् । एतानि चविंशतिं द्रव्याणि प्रत्येक द्विपलानि जलद्रोणे पक्त्वा पादावशेषिते षोड़शशरावावशेषे भार्यादीन्येकोनविंशतिं
चक्रपाणिः-ब्राह्मीत्यादौ पुराणमिति घृतं विशेषेण तथा साध्यमिति विशेषः। तेन पुराणं घृतमिति साध्यं भवति ॥ १०॥ ... चक्रपाणिः-द्वे पञ्चमूले इत्यादि निर्दिष्टं पञ्चमूलद्वयं दशमूलाख्यं ग्राह्यम् । नीलिनी
For Private and Personal Use Only