________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७५० चरक-संहिता। [ अपस्मारचिकिस्सितम्
तैरावृतानां हृत्स्रोतो-मनसां संप्रबोधनम् । तीक्ष्णरादो भिषक कुर्यात् कर्मभिर्वमनादिभिः॥ वातिकं वस्तिभूयिष्ठैः पैत्तं प्रायोविरेचनैः । कफजं वमनप्रायैरपस्मारमुपाचरेत् ॥७॥ सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च । अपस्मारविमोनार्थ योगान संशमनान् शृणु ॥८॥ गोशकूद्रसदध्यम्ल-क्षीरमूत्रः समेघृतम् । सिद्धं पिबेदपस्मार-कामलाज्वरनाशनम् ॥६॥
पञ्चगव्यं घृतम्।
गङ्गाधरः-निदानमुक्तवा चिकित्सितमाह-तैरित्यादि। तैरपस्मारहेतुकुपितंर्दोषैराटतानां हृदयमनोवहस्रोतोमनसां सम्प्रबोधनमादौ भिषक तीक्ष्णः वमनादिभिः कम्मे भिः कुर्यात् । तदयथा। वस्तिभूयिष्ठैमनादिभिः पञ्चभिः कर्मभिः वातिकमपस्मारमुपाचरेत् । प्रायोविरेचनैः विरेचन भूयिष्ठः वमनादिभिः पैत्तमपस्मारमुपाचरेत् । वमनमार वैमनभूयिष्ठर्वमनादिभिः कफजमपस्मारमुपाचरेत् ॥७॥
गङ्गाधरः-सब्बत इत्यादि। इत्येवं सर्चत ऊधिस्तिय॑शिरोविरेचनः सुविशुद्धस्यापस्मारिणः सम्यगाश्वासितस्यापस्मारविमोक्षार्थ संशमनान् योगान् शृण ॥८॥
गङ्गाधरः-संशमनयोगानाह-गोशकदित्यादि। पुराणं घृतं समैयुत समैोशकृद्रसैर्गव्यैर्दध्यम्लगव्यक्षीरगंजमूत्रैः सिद्धमकल्कं पक्वं पिबेत् ॥ ९॥
पञ्चगव्यघृतम्।
चक्रपाणिः-तरित्यादिना चिकित्सामाह। प्रबोधनमिति दोषविरहितत्वेन सम्यक स्वव्यापारत्वम् । प्राय इत्यादौ प्रायःशब्दो विशेषार्थः । तेनान्या क्रियापि सूचिता भवति ॥७॥.
चक्रपाणिः- आश्वासितस्येति आप्यायितस्य ॥ ॥
चक्रपाणिः-गोशकृदित्यनेन दध्यादिभिरिति गोशब्दो योज्यः। तेन पञ्चगव्यमिदमल्पं भवति । साम्यञ्चात्र गोशकृद्रसादीति परिभाषासिद्धमपि स्पष्टार्थमुच्यते ॥ ९ ॥
For Private and Personal Use Only