________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्यायः चिकित्सितस्थानम् ।
२७४६ पक्षाद वा द्वादशाहाद वा मासाद् वा कुपिता मलाः। अपस्माराय कुर्वन्ति वेगं किञ्चिदथान्तरम् ॥ ६॥
भृशम्। चेतस्यभिहते पुंसामपस्मारोऽभिजायते। संज्ञावहेषु स्रोतःसु दोष. व्याप्तेषु मानवः। रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा। विक्षिपन् हस्तपादो च विजिह्मम्र विलोचनः। दन्तान् खादन् वमन् फेनं विताक्षः पतेत् क्षिती। अल्पकालान्तरश्चापि पुनः संशां लभेत सः। सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुर्विधः । वातपित्तकफैनणां चतुर्थः सान्निपातिकः । हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्छा प्रमूढ़ता। निद्रानाशश्च तस्मिंस्तु भविष्यति भवत्यथ। वेपमानो दशेद दन्तान् श्वसन् फेनं वमन्नपि। यो ब्रूयाद् विकृतं सत्त्वं कृष्णं मामनुधावति । ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः॥ तृढ़तापस्वेदमूतिौ धुन्वन्नानि विह्वलः। यो ब्र याद् विकृतं सत्त्वं पीतं मामनुधावति। ततो मे चित्तनाशः स्यात् स पित्तभव उच्यते ॥ शीतहल्लासनिद्रात्तैः पतन् भूमौ वमन् कफम्। यो ब्र याद विकृतं सत्त्वं शुक्लं मामनु धावति। ततो मे चित्तनाशः स्यात् सोऽपस्मारः कफात्मकः॥ हृदि तोद रखडतक्लेशस्त्रिष्वप्येतेषु सङ्ख्यया। प्रलापः कूजनं क्लेशः प्रत्येकञ्च भवेदिह । सव्व लिङ्गसमावायः सर्वदोषप्रकोपजे। अनिमित्तागमाद् व्याधे मनादकृते. ऽपि च। आगमाचाप्यपस्मारं वदन्त्यन्ये न दोषजम् । क्रमोपयोगाद दोषाणां क्षणिकलात् तथैव च। आगमाद वैश्वरूपाच्च स तु निवण्यते बुधैः। वर्षत्यपि यथा देवे भूमो वीजानि कानिचित् । शरदि प्रतिरोहन्ति तथा व्याधिसमुच्छयः। स्थायिनः केचिदल्पेन कालेनाभिप्रवर्द्धिताः। दर्शयन्ति विकारांस्तु विश्वरूपान् निसर्गतः। अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु ॥” इति ॥५॥
गङ्गाधरः-अथास्यागमकालानाह-पक्षाद वेत्यादि । पक्षादिकालविकल्पो दोषाणां हेतुविशेषेण बलप्रकर्षापकर्षादितः स्वभावाच ॥६॥
उच्यते। चिरादिति वचनेन वातपित्तयोः अचिरेण मोक्षं सूचयति। क्षीणस्थानवश्व यः इति क्षीणस्य एकदोषजोऽप्यसाध्य इति भावः ॥५॥
चक्रपाणिः-पक्षाद्वेत्यादी ब्युत्क्रम्य कालनिर्देशेन उक्तकालादूई माक् चापस्मारवेगो भवतीति सूचयति । किश्चिदथान्तरमिति किञ्चित्कालं वेगं कुर्वन्ति स्तोककालमिति यावत् ॥ ६॥
३४५
For Private and Personal Use Only