________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७४६
चरक संहिता |
पीतफेनाङ्गवाक्षः पीतासृग्र पदर्शनः । सतृष्णोष्मानलव्याप्त - लोकदर्शी च पैत्तिकः ॥ शुक्लफेनाङ्गवाक्षः शीतो हृष्टाङ्गजो गुरुः । पश्यन् शुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात् ॥ सव्वैरेतैः समस्तैश्च लिङ्गेन यस्त्रिदोषजः ।
परमारः स चासाध्यो यः क्षीणस्यानवश्च यः ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ अपस्मारचिकित्सितम्
:
अपस्मारी पश्येत् ॥ ० ॥ पीतेत्यादि । पैसिकोऽपस्मारी पीतफेनाङ्गवदनः । यदा भ्रान्तेन चेतसा मूढः सन् पतति जिल्ह्माक्षिभ्रूः स्रवल्लालः पादौ हस्तौ च विक्षिपन्नतिस्फुरति तदा पीतफेनोद्वामी भवति । पीतासृङ्क्षक्षितभीमरुधिरवर्णरूपं मोहकाले पश्येत् । दोषवेगे विगते सुप्तोत्थित इव भवन पीताङ्गवक्तो भवति । तृष्णोष्मा तृष्णोष्मभ्यां विशिष्ट अनलव्याप्तलोकदर्शी च वर्त्तते ॥॥ शुक्लेत्यादि । श्लैष्मिकोऽपस्मारी यदा भ्रान्तेन चेतसा मूढ़ो भवति, तदा शुक्लानि कानिचिदसद्रपाणि पश्येत् । पश्यंश्च पतति जिह्माक्षिभ्र स्रवल्लालो हस्तौ पादौ च विक्षिपन्न तिस्फुरति । दोपवेगे विगते शुक्लाङ्गवक्ताक्षः शीतो हृष्टलोमा गुरुगात्रो वर्त्तते । चिरान्मुच्यते चिरकालेन प्रतिबुध्यते इति । विस्तरेण निदानस्थाने व्याख्यातः ॥ ० ॥ सान्निपातिकमपस्मारमाहसबैरित्यादि । एतैः सर्वः सर्वेषां त्रयाणां दोषाणां समस्तैर्लिङ खिदोषजोsपस्मारो शेयो न तु त्रयाणां दोषाणाम् एकदेशलक्षण; तस्मात् स चापस्मारोऽसाध्यः, ऐकदेशिक त्रिदोषलिङ्गः सान्निपातिकरोगस्तु साध्यः स्यात् । यश्चापस्मार एकैकदोषजोऽपि क्षीणजनस्य भवति, स चासाध्यः । यश्वानवः पुराणः स चासाध्यः इति । सुश्रते चोक्तम् । तद्यथा “स्मृतिर्भतार्थविज्ञानमपस्तत्परिवज्र्ज्जने । अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् । मिथ्यादियोगेन्द्रियार्थ- कर्म्मणामभिसेवनात् । विरुद्धमलिनाहार-विहारकुपितैर्मलैः । वेगनिग्रहशीलानामहिताशुचिभोजिनाम् । रजस्तमोऽभिभूतानां गच्छताश्च रजस्वलाम् । तथा कामभयोग-क्रोधशोकादिभिर्भृशम् । चेतस्य भिहते
For Private and Personal Use Only
चक्रपाणिः - पृथगित्यादिना चतुर्व्विधापस्मारलक्षणमाह । पीतासृग्रूपदर्शन इति पीतलोहितरूपदर्शी । तृष्णेति तृष्णोष्मा चासो अनरुम्याप्तलोकदर्शी चेति समासः । शुक्लेति इलैष्मिक