________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०म अध्यायः ] चिकित्सितस्थानम् । २७४७
धमनीभिः श्रिता दोषा हृदयं पीड़यन्ति हि। संपीड्यमानो व्यथते मृढ़ो भ्रान्तेन चेतसा ॥ पश्यत्यसन्ति रूपाणि पतति प्रस्फुरत्यति । जिह्माक्षिभूः स्त्रवल्लालो हस्तौ पादौ च विक्षिपन् । दोषवेगे च विगते सुप्तवत् प्रतिबुध्यते ॥ ४ ॥ पृथग्दोषैः समस्तैश्च वक्ष्यते स चतुर्विधः । कम्पते प्रदशेद दन्तान् फेनोद्वामी श्वसित्यपि । परुषारुणकूष्णानि पश्येद् रूपाणि चानिलात् ॥
आटते, तथा नृणां चिन्तादिभिर्मनसि अभिहते, अपस्मारः प्रवत्तते। इति निदानपूर्वकसम्माप्तिः ॥३॥
गङ्गाधरः-सामान्यलक्षणमाह--धमनीभिरित्यादि । हृदयमूलाभिर्धमनीभिः श्रिता दोषा वातपित्तकफा हृदयं पीड़यन्ति, हृदये दोषैः सम्पीडयमानो मानवो भ्रान्तेन चेतसा मूढः प्रमोहं गतः सन् व्यथते । यदा मूढो भवति तदा खल्वसन्ति रूपाणि मिथ्याभूतानि रूपाणि पश्यति पतति चातिस्फुरति च। जिह्माक्षिभ्रः कुटिलाक्षः कुटिलभ्रश्च तदा भवति । स्रवल्लालश्च सन् हस्तो पादौ च विक्षिपन् वत्तेते। दोषवेगे च विगते सुप्तवत् प्रतिबुध्यते सुप्तोत्थित इव भवति ॥४॥ .
गङ्गाधरः-सङ्ख्या चोक्ता निदाने चखारोऽपस्मारा इह च स चतुविध इति तच्च पृथगदोरित्यादिना प्रोक्तम्। तत्र वातिकादिक्रमेण लक्षणमाह-कम्पत इत्यादि। यदा मूढः सन् पतति अतिस्फरति तदा कम्पते, दन्तान् प्रदशेत्, फेनोद्वामी सन् श्वसिति च, परुपाणि चारुणवणानि च रूपाणि अनिलात्
चक्रपाणिः-धमनीभिरिति यद्यपि सामान्येनोक्तं तथापि हृदयपीडायोग्यतया हृदयाश्रिता एव धमन्यो विशेषेण गृह्यन्ते। अत्र च वातादीनां प्रकोपे पृथक्पृथक् हेतु!क्तः। तस्य सन्मादसाधारणत्वेनोक्तत्वात् । उक्त हि-यच्चोपदेक्ष्यते किञ्चित् अपस्मारचिकित्सिते। उन्मादे सच कर्त्तव्यं सामान्यावतुदूष्ययोरिति। यस्त्वपस्मारस्य विशिष्टो हेतुरुन्मादात् समुदितात् सक्त, एव.॥ ४॥
For Private and Personal Use Only