________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८
दशमोऽध्यायः। अथातोऽपस्मारचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ स्मृतेरपगतं प्राहुरपस्मारं भिषविदः। तमःप्रवेशं बीभत्स-चेष्टं धोसत्त्वसंप्लवात् ॥ २ ॥ विभ्रान्तबहुदोषाणामहिताशुचिभोजिनाम् । रजस्तमोभ्यां विहते सत्त्वे दोषावृते हृदि ॥ चिन्ताकामभयक्रोध-शोकोद्व गादिभिस्तथा।
मनस्यभिहते नणामपस्मारः प्रवर्त्तते ॥३॥ गङ्गाधरः-उद्देशानुक्रमेण उन्मादानन्तरमपस्मारचिकित्सितमाह-अथात इत्यादि। पूववयाख्येयम् ॥ १॥
गङ्गाधरः-स्मृतरित्यादि। स्मृतेः स्मृतितोऽपैति अपस्मारः। निरादयो गताद्यर्थे पञ्चम्येति तत्पुरुषः । अपशब्दाथ इह गत इति । स्मृतितोऽपगमने प्रतिनियतं यद् भवति तदाह-तमःप्रवेशम् अन्धकारे प्रवेशो यत्र स्मृत्यपगमे सत्त्वसंप्लवान्मनसः सम्यकप्लवनाद बीभत्सा चेष्टा यत्र तमपस्मारमाहुः भिषग्विदः॥२॥
गङ्गाधरः--तस्य निदानमाह-विभ्रान्तबहुदोषाणां मानतो बहवो दोषा येषां विभ्रान्ता अस्थिरास्तेषाम्, अहितान्यशुचीनि भोक्तुं शीलमेषां तेषां, रजस्तमोभ्यां कुपिताभ्यां विहते सत्त्वे मनसि हृदि च दोषाढते शारीरदोषैः
चक्रपाणिः-व्याध्युत्पत्ताबुन्मादेन सहोत्पन्नत्वादुन्मादमनु अपस्मारचिकित्सितमुच्यते ॥१॥
चक्रपाणिः-स्मृतेरपगम इत्यादिनापस्मारसंज्ञां व्युत्पादयन् अपस्मारस्वरूपमाह। स्मृतेरपगम एव विशिनष्टि-तमःप्रवेश इति । बीभत्सचेष्ठमिति तमःप्रवेशेन ज्ञानाभावत्वाद बीभत्सविचेष्टनवत् वदनाङ्गविक्षेपणादिकादनुमितं बीभत्सचेटम् । स्मृत्यपगमादौ च हेतुमाह-धीसत्त्वविप्लवः, विप्लव: स्वरूपान्यथात्वम् ॥२॥
चक्रपाणिः-यादृशानामपस्मारो भवति तानाह-विभ्रान्तेत्यादि। विभ्रान्ता उन्मार्गगामिनो बहवश्व दोषा येषां तेषां विभ्रान्तबहुदोषाणाम् । विहते सत्व इति सच्चाख्यगुणे विहते, न तु सत्त्वशब्देन मन उच्यते। तस्य मनस्यभिहते इति ग्रहणन सिद्धिः ॥३॥
For Private and Personal Use Only