________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रिचिकित्सितम्
स
२७५४ चरक-संहिता।
चिकित्सितम् कटभीनिम्बकटुङ्ग-मधुशिय़ त्वचां रसे। सिद्धं मूत्रसमं तैलमभ्यङ्गार्थे प्रशस्यते ।। १८ ॥ पलङ्कषावचापथ्या-वृश्चीकाल्यर्कसर्षपः। जटिलापूतनाकेशी-लाङ्गलीहिङ्गचोरकैः॥ लसुनातिरसाचित्रा-कुष्ठेविड भिश्च पक्षिणाम् । मांसाशिनां यथालाभं वस्तमूत्र चतुर्गणे ॥ सिद्धमभ्यञ्जनं तैलमपरमारविनाशनम् । एतैश्चैवौषधैः कायं धूपनं सप्रलेपनम् ॥ १६ ॥ पिप्पली लवणं हिङ्ग शिग्रु हिङ्गशिराटिकाम् । काकोली सर्षपान् काक-नासां कटर्यचन्दने ॥ गङ्गाधरः-कटभीत्यादि। एवं कटभ्यादीनां चतुणों बचां रसे त्रिगुणे केचिदाहुश्चतुर्गुणे मूत्रसमं तैलं सिद्धमपस्मारिणोऽभ्यङ्गार्थे प्रशस्यते। कटभी क्षुद्रशिरीषः । कटुङ्गः श्योनाकः । मधुशियः रक्तशोमाञ्जनः । एषां प्रत्येक खचा रसस्तैलसम इति ॥१८॥
गङ्गाधरः-पलङ्कषेत्यादि। पलकषा गोक्षुरा। वृश्चिकाली वृश्चिकपत्री। जटिला जटामांसी। पूतना हरीतकी। केशी केशिनी शङ्खिनीपुष्पम् । चोरकः पिडा इति लोके। अतिरसा जलयष्टीमधु। चित्रा द्रवन्ती। मांसाशिनां पक्षिणां यथालाभं विभिः पुरीषैः । एभिस्तैलपादिकैः कल्कैवस्तमूत्रे छागमूत्रे चतुर्मुणे सिद्धं सार्षपं तैलमभ्यञ्जनमपस्मारनाशनमिति। एतैरित्यादि। एश्च पलङ्कषादिभिरौषधेरपस्मारिणो धूपनं प्रलेपनश्च कार्यम् ॥१९॥ ___ गङ्गाधरः-पिप्पलीमित्यादि । हिङ्ग, हिङ्गनिर्यासः। हिङ्गशिराटिका हिडपत्री, न तु हिङ्गनो भागद्वयम् । काकनासिकां काउया ठीति लोके। केटयं - चक्रपाणिः-कटभीत्यादौ कटभ्यादीनां चतुर्णामपि त्वचं गृहीत्वा क्वाथस्तेन विगुणः कर्तव्यः । चतुर्थस्तु दवभागेणैव स्नेहसममेव पूर्यते ॥ १८॥
चक्रपाणिः-पलङ्कषेत्यादौ पूतनायाः पूतना पूर्वायाः केशी पूतनाकेशी गोलोमीत्यर्थः । तथा यस जतूकणे पूतमाकेशी गोलोमीत्युच्यते। उक्तं हि "वृत्रिकालीपथ्यागोलोमीनाकुली. गुगगुलुकुष्ठैः सर्षपजटिलाहिड्वचामधुकचिसादिमांसादपुरीषैर्दस्तमूत्रेऽभ्यङ्गः। अतिरसा जलयष्टी. मधु। चिता दन्ती ॥ १९॥
For Private and Personal Use Only