________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[उन्मादचिकित्सितम
२७४४
चरक-संहिता। यच्चोपदेक्ष्यते किञ्चिदपस्मारचिकित्सिते। उन्मादे तच्च कर्त्तव्यं सामान्याद्धेतुदृष्ययोः॥ ४६ ॥ निवृत्तामिषमयो यो हिताशी प्रयतः शुचिः। निजागन्तुभिरुन्मादैः सत्त्ववान् न स युज्यते ॥ ४७॥ प्रसादश्चेन्द्रियार्थानां बुद्धयात्ममनसां तथा। धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम् ॥ ४८ ॥
इत्यवं बल्यादिभिर्देवादिपूजनान्तरागन्तुरुन्मादः प्रशमं याति । सिद्धमन्त्ररोष,श्व तथागन्तुरुन्मादः प्रशमं याति ॥४५॥
गङ्गाधरः-अपरश्चाह-यच्चत्यादि। सामान्याद्धेतदृष्ययोरिति वचनेनानुक्तोऽप्युन्मादहेतुरपस्मारहेतुर्य उक्तः सोऽप्युन्मादहेतुरिति ख्यापितम् ॥४६॥
गङ्गाधरः-यस्योन्मादो न भवति तदाह-निवृत्तेत्यादि। यो मत्स्यमांसभक्षणमद्यपानाभ्यां निवृत्तः शुचिश्च हिताशी च प्रयतः संयतश्च स निजागन्तुभि रुन्मादैन युज्यते॥४७॥
गङ्गाधरः-उन्मादनिवृत्तिलक्षणमाह-प्रसादश्चेत्यादि । इन्द्रियाणां प्रसादस्तथा बुद्धयात्ममनसाश्च प्रसादः। धातूनां रसरक्तादीनां प्रकृतिस्थत्वं स्वस्खमाने स्थितिः, सर्वमिदं विगतोन्मादस्य लक्षणमिति ॥४८॥
चक्रपाणिः-सामान्याद्धेतुदूष्ययोरित्युन्मादेनापस्मारेण च समहेतुमनोऽभिघातादिदृष्यच हृदयं समानमित्यर्थः ॥ ४६॥
चक्रपाणिः - निवृत्तामिष इत्यादिः व्याख्यात एवं पूर्वम् ॥ ४७ ॥
चक्रपाणिः-क्रियमाणोन्माद-चिकित्सायाः स्फोटनार्थ विगतोन्माद-लक्षणमाह-प्रसाद इत्या ॥१८॥
For Private and Personal Use Only