SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९म अध्यायः] चिकित्सितस्थानम्। २७४३ सर्पिःपानादि तस्येह मृदु भेषजमाचरेत् । पूजां बल्युपहारांश्च मन्त्राञ्जनविधींस्तथा ॥ शान्तिकम्भेष्टिहोमांश्च जपवस्त्ययनानि च वेदोक्तान् नियमांश्चापि प्रायश्चित्तानि वाचरेत् ॥ भूतानामधिपं देवमीश्वरं जगतः प्रभुम् ।। पूजयन् प्रायशो नित्यं जयत्युन्मादजं भयम् ॥ रुद्रस्य प्रमथा नाम गणा लोके चरन्ति ये। तेषां पूजाश्च कुर्वाण उन्मादेभ्यः प्रमुच्यते ॥ बलिभिर्मङ्गलैहोमरौषध्यगदधारणैः । सत्याचारतपोज्ञान-प्रदाननियमवतः ॥ देवगुह्यकविप्राणां गुरूणां पूजनेन च । ___ आगन्तुः प्रशमं याति सिद्वैमन्त्रौषधैस्तथा ॥ ४५ ॥ तीक्ष्णान्यञ्जनादीनि क्रूरकर्मा च बुद्धिमान वर्जयेत्। सुश्रुतेऽप्युक्तम्। “न चायुक्तं प्रयुञ्जीत प्रयोगं देवताग्रहे । ऋते पिशाचादन्येषु प्रतिकूलं न चाचरेत् । वैद्यातुरौ निहन्युस्ते ध्रुवं क्रुद्धा महौजसः॥” इति। सर्पिष्पाणादि . तस्य देवषिपितृगन्धर्बादुरन्मत्तस्य मृदु भेषजञ्चेहाचरेत् । युक्तिव्यपाश्रयमुक्त्वा दवन्यपाश्रयमाह-पूजामित्यादि। पूजां देवादीनामधिदेवानां पूजामाचरेत् । तदुक्तं विशेषेण सुश्रुते तन्त्रान्तरे च, तं कारयेत् । ननु कस्य पूजादिकमाचरेदित्यत आह-भूतानामित्यादि । भूतानां देवादीनामधिपं जगतः प्रभुमीश्वरं शिवं देवं प्रायशो नित्वं पूजयन् दोषागन्तुजोन्मादजं भयं जयति। एवं रुद्रस्य प्रमथा नाम गणा ये लोके चरन्ति तेषां पूजाश्च कुणि उन्मादेभ्यो भूतजेभ्यः प्रमुच्यते। बलिभिरित्यादि। ये देवादयो गृह्णन्ति तेषां बलिभिरुपहारैः ओषधि प्रशस्तां धारयेत् । अगदश्च भूतोचितं धारयेत् । चक्रपाणि:-क्रूरमिति ताड़नादिकम् । कम्र्मेत्यादिना देवघ्यपानयचिकित्सामाह ॥ ४५ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy