________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४२ . चरक-संहिता। [उन्मादचिकित्सितम्
देहदुःखभयाभ्यां हि परं प्राणभयं स्मृतम् । तेन तस्य शमं याति सर्वतो विस्मृतं मनः ॥४१॥ इष्टद्रव्यविनाशात् तु मनो यस्योपहन्यते । तस्य तत्सदृशप्राप्त्या सान्त्वाश्वासैः शमं नयेत् ॥ ४२ ॥ कामशोकभयक्रोध-हर्षालोभसम्भवान् । परस्परप्रतिद्वन्द्व रेभिरेव शमं नयेत् ॥ ४३ ॥ बुद्धा देशं वयः सात्म्यं दोष कालं बलाबले । चिकित्सितमिदं कुर्य्यादुन्मादे दोषभूतजे ॥ ४४ ॥ देवर्षिपितृगन्धव्वैरुन्मत्तस्य च बुद्धिमान्। ...
वर्जयेदञ्जनादोनि तीक्ष्णानि क्रूरकर्म च ॥ नृपेण कृता तव वधार्थमित्यवं भीषयन्तस्त्रासयेयुः । एषामाशिषमाह-दहेत्यादि। देहभयात् दुःखभयाच हि यस्मात् प्राणभयं परं श्रेष्ठं स्मृतम्, तेन प्राणभयेन विस्मृतं मनः सर्वतः शमं याति ॥४१॥ ..गङ्गाधरः-इष्टेत्यादि। यस्य खल्विष्टद्रव्यविनाशात् मन उपहन्यते, तस्य तत्सदृशद्रव्यप्राप्ता सान्त्ववचनर्मधुरवचनैराश्वासवचनैश्च शमं नयेत् ॥ ४२ ॥ . . गङ्गाधरः-कामशोकेत्यादि। कामादिजानुन्मादान् परस्परप्रतिद्वन्द्वरेभिः कामादिभिरेव शमं नयेत्। कामजं शोकक्रोधभयेाभिः शमं नयेत् । शोकादिजान् कामहर्ष लोभैः शमं नयेत् । - इत्येवं यथायोग्यं विद्यात् ॥ ४३॥
गङ्गाधरः-बुद्धत्यादि । देशादिकं बुद्धा दोषभूतज उन्माद इदं चिकित्सितं कुय्यात् ॥४४॥ . .
गङ्गाधरः-अत्रापवादमाह-देवर्षिपितृगन्धव्वैरित्यादि। देवादिभिरुन्मत्तस्य
चक्रपाणिः-सिंह रिति व्याघ्रः दान्तैः।. वहिरिति ग्रामवहिः। देहःखभयेभ्य इति देहदुःखकारणेभ्यः॥४१॥ .
चक्रपाणिः-इष्टद्रव्येत्यादिना पूर्दमसूसिनोऽपि अयमुन्मादः प्रकरणाचिकित्स्यते। यथा तृष्णाध्याये पञ्च तृष्णाः प्रतिपाद्य गुनजायाऽप्यधिकायाश्चिकित्सोच्यत इत्याहुः। किन्तु चिन्तादिष्टहृदय इत्यादिनोक्तोन्मादेन गृहीत एवायमर्थोऽत्र चिकित्सित इति पश्यामः । पोन्मादव्यवस्थायामस्य वातिके एवावरोध उचितः, इन्द्रब्यदिनाशस्य वातप्रकोपकारिस्वात् । एवं कामादिभवेष्वपि वाच्यम् ॥ ४२–४४ ॥
For Private and Personal Use Only