________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९म अध्यायः] चिकित्सितस्थानम्।
आश्वासयेत् सुहृद वा तं वाक्यैर्धर्मार्थसंहितैः। ब्रूयादिष्टं विनाशं वा दर्शयेदभूतानि च ॥ ४०॥ बद्धं सार्षपतैलाक्तमुत्तानश्चातपे न्यसेत् । .. कपिकच्छाथवा तप्तैोहतैलजलैः स्पृशेत् ॥ कशाभिस्तायित्वा वा बद्धन्तु विजने गृहे। रुन्ध्याच्चेतो हि विभ्रान्तं तथा व्रजति तच्छमम् ॥ सर्पणोद्धृतदंष्ट्रण दान्तैः सिंहगंजैश्च तम् । त्रासयेच्छस्त्रहस्तैर्वा तस्करैः शत्रुभिस्तथा ॥ अथवा राजपुरुषा वहिर्नीत्वा तु संयतम् । त्रासयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया ॥ गङ्गाधरः-आश्वासयेदित्यादि। सुहृज्जनो वा तमुन्मादरोगिणं धर्मार्थ. संहिताक्यरावासयेत्, इष्टमभीष्टं वाक्यं वा ब्रूयात् । तथा यद्विनाशे मनोऽभिघातादुन्मादो भवनि तद्विनाशद्रव्यं प्रतिरूपं दर्शयेद अदभुतानि च दशेयेत् ॥४०॥
गङ्गाधरः- बद्धमित्यादि। उन्मादिनं सापपतलेनाभ्यक्तं कृत्वा वस्त्रादिना हस्तपादं बद्धा - त्तानं कृत्वा रौद्रे न्यसेत् शाययेत् । अथवा कपिकच्छा वानरीवीजेन सशूकेन तमुन्मादिनं स्पृशेदथवा यथा न दह्यते तथा तप्तेलौहतैलजलैः स्पृशेत् । अथवा कशाभिरश्वताइनरज्जुरूपांभिस्ताइयित्वा हस्त. पादे बद्धमुन्मादिनं विजने गृहे रुन्ध्यात्। आश्वासयेदित्यादीनामाशीरियम्भ्रान्तं हि चेतो मनस्तच्छमं व्रजति । अपरश्चाह-उद्धता दंष्ट्रा वृहद्दीर्घाकारा दन्ता यस्य, याभिदंशति सर्पस्तदन्तानुद्धत्य तेन सर्पण त्रासयेदथवा. दान्तः पोषितैर्वशीभूतः सिंहः गजैर्वा त्रासयेदथवा शस्त्रहस्तः पुरुषैर्वधायोद्यतरूपैस्वासयेदथवा तस्करः किंवा शत्रुभिस्त्रासयेत् । अथवेत्यादि। अथवा राजपुरुषाः पदातिका एनमुन्मादिनं बहिर्नीत्वा सुसंयतं बद्धं कृत्वा तजयन्तः, आशा
चक्रपाणिः-रूपादिषु विनाशमित्यादिनोद्धान्तचित्तस्य पुनश्चित्तस्थिरकरणैः स्वदेशा. नयनमेव । दृश्यते च घट्टनचलितस्य पुनर्घटनेनैव सम्यक्स्थानं, तद्वदिहापि ज्ञेयम् ॥ ४०॥
३४४
For Private and Personal Use Only