________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। उन्मादचिकि सतम् तिक्तकं जीवनीयश्च सर्पिः स्नेहश्च मिश्रकः । शीतानि चानपानानि मधुराणि मृदूनि च ॥ ३६ । ३७॥ शङ्खकेशान्तसन्धौ वा मोक्षयेजज्ञो भिषक् सिराम् ॥ ३८ ॥ उन्मादे विषमे चैव ज्वरेऽस्मार एव च। घृतमांसवितृप्तं वा निवाते स्थापयेत् सुखम् ।
त्यक्ता स्मृतिमतिभ्रशं संज्ञां लब्ध्वा प्रमुच्यते ॥ ३६॥ वातात्मके श्लेष्मात्मके प्रायः कारयेत् । पैत्तिके तु प्रशस्यते किमिति तदा - तिक्तकं नाम सर्पिर्जीवनीयं नाम सर्पिमिश्रकः स्नेहो नाम च शीताः मधुराणि मृदूनि चानपानानि शस्यन्ते ॥ ३६॥ ३७॥
गङ्गाधरः-शङ्खत्यादि। तथा पैत्तिकेऽस्मिन् उन्माद शो भिषक् शङ्खकेशान्तयोः सन्धौ या सिरा तां वा मोक्षयेत् ।। ३८॥
गङ्गाधरः-उन्माद इत्यादि। उन्माद दोषभूतजे विषमे ज्वरे चापस्मारे च घृतमांसाशनेन वितृप्तं जनं निवाते गृहे सुखं स्थापयेत् । तेन हुन्मादी विषमज्वरौ चापस्मरी च स्मृतिमतिभ्रशं त्यक्त्वा संज्ञां लब्ध्वा तेभ्यो रोगेभ्यः प्रमुच्यते ॥ ३९॥
चक्राणिः-शल्लकादीनां यथासम्भवं मूत्रादीनि ग्राह्याणि। तितकं महातितकं षट्पल रूपं, जीवनीथं सर्वाितरक्ते वक्ष्यते ॥३६॥३७॥
चक्रपाणिः - शङ्ख केशान्ते च सन्धिः शङ्खकेशान्तसन्धिः। तल च प्रत्यासन्नमर्मपरित्यागेन मुश्रुतोक्तं सिराविभागमवलोक्य सिराव्यधः कर्त्तव्यः ॥ ३८ ॥ - चक्रपाणिः-मांसच यद्यपि निवृत्तामिपमद्यो य इत्यादिनोन्मादे निषिद्धं तथाप्येवं विधेन प्रयोगेण मांसयोगमाह, यथा भयहर्षयोरुन्मादकारणत्वेऽपि तौ पुनरुन्मादे विधेयत्वेनोच्येनेसान्त्वनं हर्षणं भयम् इत्यादिना। अन्ये तु निवृत्तमांसत्वमागन्तून्मादप्रशमनमिति ब्याख्याभयन्ति । सेनेह निजे मांसविधानेऽनवरोध इति व्याख्यानयन्ति। अन्ये तु मांससेवथोन्मादो भवतीति निवृत्तामिषमयो य इत्यनेनोच्यते । सोपदेशन्तु मांसमुन्मादप्रशमनमिति भिन्नविषयतया म विरोध इति वर्णयन्ति । किन्तु निदानोक्तस्यापि मांसस्य स्क्जन्यच्याधिप्रशमकर सविरोधमेव, तेन पूर्वमेव समाधानमख समीचीनमिति पश्यामः ॥३९॥
For Private and Personal Use Only