________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९म अध्यायः
चिकित्सितस्थानम्। २७३४ नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा । अपस्मारविषोन्माद-कृत्यालक्ष्मीज्वरापहम् ॥ भूतेभ्यश्च भयं नास्ति राजद्वारे च शस्यते। सर्पिरतेन सिद्धं वा सगोमूत्रं तदर्थकृत् ॥ ३४॥
सिद्धार्थादिः। प्रसेके पोनसे गन्धैधूमवतिं कृतां पिबेत् । वरेचनिकधूमोक्तैः श्वेताद्यैर्वा सहिङ्गुभिः ॥ ३५ ॥ शल्लकोलूकमार्जार-जम्बूकवृकवस्तजैः । मूत्रपित्तशकुल्लोम-नखैश्चर्मभिरेव च ॥ सेकाञ्जनं प्रधमनं नस्यं धूमञ्च कारयेत् ।
वातश्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते ॥ नाम भवति । तस्य पानादिकमपस्माराद्यपहम् । पानादितो भूतेभ्यो भयं नास्ति राजद्वारे च प्रियो भवन् शस्यते। एतेन सिद्धार्थकादिना कल्केन गोमूत्र. चतुगुणं सिद्धं सपिर्वा तदर्थकृत् अपस्मारादिरोगापहं भूतेभ्यो भयं नास्ति राजद्वारे च शस्यत इति सिद्धार्थकादिरगदो घृतश्च ॥३४॥ .. ___ गङ्गाधरः-प्रसेक इत्यादि । दोषभूतोपहतचेतसां मुखप्रसेके पीनसे च जाते वैरेवनिकधूमविधौ सूत्रस्थाने उक्तैर्गन्धैः द्रव्य॑धूमवर्ति कला पिबेत् पाययेत् । अथवा सिद्वार्थादिगणे श्वेताद्यः श्वेता कटभीखक कटुत्रिकं प्रियङ्ग शिरीषो रजनीद्वयैः सह हिङ्गभिः पिष्ट्वा धूमवर्ति कृला पिबेत् ॥ ३५॥
गङ्गाधरः--शल्लकेत्यादि। शल्लका शेजाड़ । उलकः पेचकः। टकः क्षुद्र व्याघ्रः। वस्तश्छागः । एषां मूत्रादिभिर्यथायोग्यं सेकादिकं वातश्लेष्मात्मके
. चक्रपाणिः-अगद इति विप इव । कृत्याभिचारः । राजद्वारे शस्यत इति वशीकरणत्वात् ॥३५ . चक्रपाणिः-गन्धैरित्यगुर्वाद्यः सागरवर्जितः। उक्तं हि सूत्रस्थाने धूमविधौ गन्धाश्चागुरुपताभ्यामिति । श्वेताद्यै रिति श्वेता ज्योतिष्मती चैव हरितालं मनःशिला इति सूत्रोक्तः ॥३५॥
For Private and Personal Use Only