________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९ अध्यायः] चिकित्सितस्थानम् ।
२७३५ लसुनानां शतं त्रिंशदभयात् त्रूषणात् पलम् । गवां चर्ममसीप्रस्थमादकं क्षीरमूत्रयोः॥ पुराणसर्पिषः प्रस्थमेभिः सिद्धं प्रयोजयेत् । हिङ्गचूर्णपलं शीते दत्त्वा च मधुमाणिकाम् ॥ तदोषागन्तुसम्भूतानुन्मादान् विषमज्वरान् । अपस्मारञ्च हन्त्याशु पानाभ्यञ्जननावनैः ॥ २६ ॥
लसुनाद्य घृतम् । लसुनस्याविनष्टस्य तुलाई निस्तुषीकृतम् । तदई दशमूल्यास्तु द्वबाढ़केऽपां विपाचयेत् ॥
गङ्गाधरः-लसुनानामित्यादि। लसुनानां गुड़कशतं न तु गुड़कान्तर्गतवोजशतम् । अभयास्वस्थिहीनास्त्रिंशद गुड़काः। अपणान्मिलितात् पलं गवां चर्माणि दग्ध्वा भस्पीकृत्य मसीप्रस्थं षोड़शपलानि क्षीरमूत्रयोर्गवां क्षीरस्य चादकं षोड़शशरावं गवां मूत्रस्य चादकं षोड़शशरावम्। एभिलेसुनादिभिः सिद्धं गवां पुराणसर्पिषः प्रस्थं पक्त्वा वस्त्रेण पूतं कृखा तत्र घृतभृष्टहिङ्ग चर्णस्य पलं दत्त्वा स्थापयेत् । अथ शीते जाते तत्र घृते मधुमाणिकां कृतद्विगुणां द्वात्रिंशत् पलानि दत्त्वा मात्रया प्रयोजयेत् । तद् घृतं दोषागन्तुसम्भूतोन्मादादीनाशु हन्ति। लसुनायघृतम् ॥२६॥
गङ्गाधरः-अपरश्चाह-लसुनस्येत्यादि। लसुनस्याविनष्टस्य जलादिभिः अध्यापनगुणवीर्यस्य खगादीनां तुलार्द्ध गृहीखा दशमूल्या मिलितायास्तदर्द्ध पञ्चविंशतिपलञ्च कुट्टयिखा अपां बाढ़के द्वात्रिंशच्छरावे एकत्र विपाचयेत् ।
कटम्भरा कटभी, वृश्चिकाली उत्तोली वृश्चिकापत्री ख्याता। अल्पपैशाचिकस्याभावान्महापैशाचिकमित्यत्र महच्छब्दः पूजावचनः ॥ २५॥
चक्रपाणिः-लशुनानां शतमित्यत्र लशुनवीजानां शतं मानेन । बेषणात् पलमित्यत समुदितात् पलम् । मधुमाणिका द्रवत्वाद् द्वैगुण्येन माणिकायाः द्विकुडवरूपायाः षोड़शपलद्वयं भवति ॥ २६॥
For Private and Personal Use Only