________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७३६
चरक-संहिता। [ उन्मादचिकित्सितम् पादशेषे घृतप्रस्थं लसुनस्य रसं तथा। कोलमूलकवृनाम्ल-मातुलुङ्गाकै रसः ॥ दाडिमाम्लसुरामस्तु-काञ्जिकाम्लैस्तदर्द्धकः । साधयेत् त्रिफलादारु-लवणव्योषदीप्यकैः ॥ यमानोचव्यहिङ्गम्ल-वेतसैश्च पलार्धिकः । सिद्धमेतत् पिबेच्छूल-गुल्माशेजठगपहम् ॥ बनपाण्डामयप्लीह-योनिदोषक्रिमिज्वरान् । वातश्लेष्मामयान् सर्वानुन्मादांश्चापकर्षति ॥ २७॥
लसुनाद्य घृतम्। हिङ्गाना हिङ्गपा च सकायस्थावयःस्थया। सिद्ध सपिहितं वा स्याद् वयःस्थाहिङ्गचोरकैः ॥ केवलं सिद्धमेभिर्वा पुराणं पाययेद घृतम् ।
पाययित्वोत्तमा मात्रां श्वने रुन्ध्याद गृहेऽपि वा ॥२८॥ पादशेषेऽष्टशरावकाथेऽवशिष्टे काथं वस्त्रपूतं कृला तेन काथेन पुराणं गव्यघृतप्रस्थ लसुनस्य रसश्च तथा प्रस्थं तदद्धकः प्रत्येकमद्धप्रस्थैः कृतद्वैगुण्यैः कोलादीनां रसैर्दाडिमाद्यम्लेश्चाद्ध प्ररथैः शरावद्वयमितैः पलाद्धिकैस्तु त्रिफलादिभिः कल्कः साध्येत् । दीप्यकं क्षेत्रयमानी। यमानी तु वनयमानी। सिद्धमेतद् घृतं पिबेत् । शूलेत्याद्याशीः। इति लसुनाद्य घृतम् ॥२७॥
गङ्गाधरः-हिडनेत्यादि। “हिपर्णी वेणुपत्री नाड़ी हिङ्गुशिर टिका।" इति पर्यायाः। वेणुपातीक्षे। देशभेदे वांशपातीति । हिङ्गपा कायस्थावयःस्थाभ्यां सहितया हिङ्गुना च सिद्धं घृतमुन्पादिने हितमथवा वयःस्थाहिङ्ग,चोरकैः सिद्धं घृतमुन्मादिने हितमिति । कायस्था सूक्ष्मैला। वयःस्था विभौतकी। चोरकः पृक्का लता पिडङ्ग इति लोके। अथवा केवलं पुराणं गव्यं घृतम्
चक्रपाणिः-तदई दशमूलस्येति पञ्चविंशतिपलानि । लशुनरसादीनां प्रत्येक प्रस्थमानत्वं ज्ञेयम् ॥ २७ ॥
चक्रराणिः-हिङ्गुना हिङ्गुपयेत्येकं घृतम्। सकायस्थावयःस्थयेति द्वितीयम्, वयःस्थेयादिना तृतीयम् । हिडपर्णी वंशपत्रिका। वयःस्था ब्रह्मी, कायस्था सूक्ष्मैला ॥ २८ ॥
For Private and Personal Use Only