________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७३४
चरक-संहिता ।
[ उन्मादचिकित्सितम्
जटिला पूतना केशी चारटी मर्कटी वचा । त्रायमाणा जया वीरा चोरकः कटुरोहिणी ॥ कायस्था शूकरी छत्रा सातिच्छत्रा पलङ्कषा । महापुरुषदन्ता च वयःस्था नाकुलीद्वयम् ॥ कटम्भरा वृश्चिकाली-स्थिरा अपि च घृतम् । सिद्धं चातुर्थकोन्माद - ग्रहापस्मारनाशनम् । महापैशाचिकं नाम घृतमेतद् यथामृतम् । बुद्धिस्मृतिकरञ्चैव बालानाञ्चाङ्गवर्द्धनम् ॥ २५ ॥ महापैशाचिकं घृतम् ।
साधनस्य गृष्टिक्षीरस्य सर्पिषश्च गुणवचनात् साधनसम एव साधनभूतः स्थिरादीनां रसो युक्त्या सिद्धः परिभाषया चेति । महाकल्याणक घृतम् ।। २४ ॥
गङ्गाधरः-- जटिलामित्यादि । जटिला जटामांसी । पूतना हरीतकी । केशी केशिनी शङ्खपुष्पीति लोके । चारटी कुम्भाडुलता पद्मचारिणीतिपर्य्याया ब्रह्मयष्टीत्यन्ये । मर्कटी शूकशिम्बा वीरा पृश्निपर्णी । चोरकः स्थलजचोरपुष्पी | कायस्थामलकी । शुकरी वाराही । छत्रा मधुरिका । अतिच्छत्रा शतपुष्पा । पलङ्कषा गोक्षुरकः । महापुरुषदन्ता शतमूली । वयःस्था हरीतकीभेदः । नाकुलीद्वयं, रास्नाद्वयं रास्ता सुगन्धरास्ता च । कटम्भरा कटभी शिरीषभेदः । वृश्चिकाला वृश्चिकपत्री विच्छतीति लोके । स्थिरा शालपर्णी । तैः कल्कैघृतात् पादिकैरेषाञ्च चतुगुणकाथे सिद्धं घृतं चातुर्थकादिनाशनादि भवति । महापशाचिक घृतम् ॥ २५ ॥
मानसाहचर्य्याद्वा चतुर्गुणो ज्ञेयः । केचित् त्वेकविंशतिद्रव्यवत्सर्पिस्तथैव विधिना पक्तव्यमित्य : । तत्र यतो जतूकर्णे उत्सर्गत एवास्य पाक उक्तः । द्विमाष इति माषराजमाषयोर्ग्रहणम् ॥ २४ ॥ चक्रपाणिः - जटिलेत्यादि । जटिला मांसी, पूतना हरीतकी, केशी भूतकेशी, चारटी कुम्भारुः ब्रह्मयष्टिकेयन्ये, मर्कटी शूकशिम्बी, जया जयन्ती, बीरा क्षीरकाकोली शालपर्णीत्यपरे, चोरकश्चण्डालकः, ब्राह्मी गुडूची वा, शूकरी वाराहीकन्दः, छत्रा मधुरिका, अतिच्छत्रा किंवा छत्रातिच्छत्रे द्रोणपुष्पीद्वयम्, पलङ्कषा गुग्गुलुः, शतपुष्पा, अन्ये तु विक्रान्तमुदन्ती जटिलां शतावरीमाहुः, वयःस्था सूक्ष्मैला, नाकुलीद्वयं रास्नाद्वयं,
महापुरुषदन्ता शतावरी,
For Private and Personal Use Only