________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ]
चिकित्सितस्थानम् |
एभ्य एव स्थिरादीनि जले पवैकविंशतिम् । रसे तस्मिन् पचेत् सर्पिष्टिक्षीरं चतुर्गुणम् ॥ वीराद्विमाषकाकोली- स्वयं गुप्तर्षभर्द्धिभिः । मेदया च समः कल्कैस्तत् स्यात् कल्याणकं महत् । वृहणीयं विशेषेण सन्निपातहरं परम् ॥ २४ ॥ महाकल्याणकं घृतम् ।
२७३३
गङ्गाधरः – एभ्य एवेत्यादि । एभ्यो विशालादिभ्योऽष्टाविंशतितः स्थिरादीन्येकविंशतिं द्रव्याणि प्रत्येकं समभागेन नीत्वा मिलित्वाष्टशरावं गृहीला अष्टगुणे जले पक्त्वा चतुर्थभागावशिष्टे तस्मिन् रसे काथे चतुर्गुणे गृष्टिक्षीरं चतुर्गुणं प्रस्थोन्मितं पुरातनं गव्यं सर्पिवरादिभिरष्टाभिः कल्कैः पचेत् । पक्वं तत्सर्पिर्महत् कल्याणकं नाम स्यात् । कल्याणकसंज्ञया तदुक्ताशिष इह ख्यापिता, विशेषेण वृहणीयं परं सन्निपातहरञ्चेति । वीरा पृश्निपर्णी । द्विमाषाविह सजातीयखान्मापपर्णी मुद्रपर्णी चेति । स्वयं गुप्तात्मगुप्तायाः वीजं छहणीयत्वात् । तत्रान्ये व्याचक्षते गृष्टिक्षीरचतुर्गुणवचनेनोत्सर्गसिद्धचतुर्गुणद्रवे स्नेहसाधने सिद्धे स्थिरादिकाथो भागानुक्तौ सर्पिःसम इति पञ्चगुणद्रवेऽत्र सर्पिःपाक इति । तन्न यौक्तिकमुपलभामहे । भागानुक्तौ समत्वं हि सजातीयानां कल्केषु यानि तानि समानि कल्कतया ग्राह्याणि न काथ्यसमतया । काथ्यानि काथसमतया ग्राह्याणि न कल्कसमतया न वा साध्यसमतया । तस्मादिह स्थिरादीनां रसः क्वाथः साध्यसर्पिः समतया न ग्राह्यः स्यात् । न च चतुःप्रभृति द्रवद्रव्याणीह सन्ति, चतुःप्रभृतिषु हि स्नेहसमं द्रवमुक्तं तस्मात् हस्वा काश्मर्थ्यमृद्वीका परूपक फलैर्भवेदिति तथापीह सूरषणं त्रिफला पाठा इति कृतं हरीतक्यादितिफलाया एव प्रधानतयोत्सर्गतो ग्रहणं भवति । अन्ये तु तालीशपत्रमित्यस तालीशच पतन्चेति द्रव्यद्वयग्रहणशङ्का स्यात् तेनाष्टाविंशतिपदेन स न भवत्येतदर्थमष्टाविंशतिरिति कृतम् । त्रिफलायाः प्रत्येकं ग्रहणं न्यायसिद्धमेव इति वदन्ति । अन्ये त्वष्टाविंशत्यौषधमानमिष्यत इत्यादावष्टाविंशत्यौषधसंज्ञया व्यवहारोऽस्य भवतीत्येतदर्थमष्टाविंशतिरिति कृतम् ।
For Private and Personal Use Only
गुणवचनमिह परिभाषया शुद्धजलाच्चतुर्गुणदानार्थम् ॥ २३ ॥
चक्रपाणिः - एवं स्थिरादीनीत्युक्तेर्विदारीगन्धादेः पञ्चमूलस्यापि ग्रहणं स्यादत आह-एक. विंशतिरिति । तेन कल्याणोक्तान्येवैकविंशतिर्गृह्यते । गृष्टिरेकवारप्रसूता गौः । अत क्षीरेणैव चानुर्गुण्ये प्राप्तेऽयं कषायः एकेनापि चातुर्गुव्यमित्यादिपरिभाषाया अविषयः । तेन चातुर्गुव्यपरिभाषया क्षीर
1
३४३