________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
-
[ उन्मादचिकित्सितम्
२७३०
यः शक्तो विनये : संयम्य सुदृढ़ : सुखैः । अपेतकाष्ठ लोहाद्य संरोध्यश्च तमोगृहे ॥ तर्ज्जनं त्रासनं दानं हर्षणं सान्त्वनं भयम् । विस्मयो विस्मृतेर्हेतोर्नयति प्रकृतिं मनः ॥ प्रदेहोत्सादनाभ्यङ्ग - धूपाः पानञ्च सर्पिषः । प्रयोक्तव्यं मनोबुद्धि-स्मृतिसंज्ञाप्रबोधनम् ॥ २० ॥ सर्पिःपानादिरागन्तोर्मन्त्रादिश्चेष्यते विधिः I अतः सिद्धतमान् योगान् शृणन्मादनिवर्हणान् ॥ २१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
हितं भवति । तथा मनोबुद्धिदेहसंवेजनाथ तमोगृहे स उन्मादी संरोध्यव भवति । तहि किं सर्व्व एवोन्मादीत्यत आह-यः शक्तो विनये । यो विनयं कत्तुं समर्थः स उन्मादी तमोगृहे संरोध्यः । कथमित्यत आह- सुदृढ़ः सुखैः अदुःखदैः पट्ट: पाट कोष्ठेति लोके ख्यातः संयम्य बद्धा अपेतकाष्ठलोहादिप्राणहरद्रव्ये तमोगृहे रोद्धव्य इति । विनये यस्त्वशक्तस्तस्य मनोबुद्धिस्मृतिसंवेजनार्थमाह- तनमित्यादि । तर्ज्जनं वाभिस्त्रासजननं, त्रासनं राजपुरुषद्वारा भयप्रदर्शनं भयं सर्पव्याघ्रादिभिर्भयजननं, विस्मय आश्चर्यप्रदर्शनादिः । विस्मृतोर्विकारमापन्नं मनो विस्मरति तस्माद्धेतोर्मनः प्रकृतिं नयति । अपरश्चाह - प्रदेहेत्यादि । प्रदेहादिकं मनोबुद्धिरमृतिप्रबोधनं प्रयोक्तव्यम् ॥ २० ॥
गङ्गाधरः- निजोन्माद - भैषज्य विधिमुक्त्वा आगन्तुनिमित्तोन्माद - भैषज्यविधिमाह - सर्पिरित्यादि । आगन्तोरागन्तुजस्योन्मादस्य सपिःपानादिर्विधिः उक्तस्नेहपान -- मृदुशोधन -वमन विरेचन - निरूहानुवासन- शिरोविरेचन विधिः
चक्रपाणिः :- संवेजनमित्युद्वेजनम् । विनयेत् पट्टरित्यनेन पट्टबन्धनं न व्रणकारी भवतीति दर्शयति । संयम्येति यथा निःसन्तु न शक्नोति तथा स्थापनीयः । काष्टाद्यपनयनं तमोगृहे आत्मवधनिषेधार्थम् । तमोगृहञ्च शून्यगृह, तम उन्मादनिदानोतमपि रोगमहिनावस्थायां हितं भवति । सर्जनं वाचा । वासनं व्यासादिभिः । विस्मृतेर्हेतोरित्युन्माद हेतुर्भयहर्षादिः विसारकतया प्रभावान्मनः प्रकृष्टं स्वभावं नयन्ति । यथा विषमे ज्वरे ज्वरकालास्मरणं स्वरहरणम् ॥ २०-२२ ॥
For Private and Personal Use Only