________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२८
चरक-संहिता। उन्मादचिकित्सितम् . रत्वनकामोन्मादिनौ तुः भिषगभिचाराभिशाप्मभ्यां बुद्धा तदङ्गोपहारबलिमिश्रण मन्त्रभैषज्यविधिनोपाचरेत् । तत्र द्वयोनिजागन्तुनिमित्तयोः उन्मादयोः समासव्यासाभ्यां भेषजविधिमनुव्याख्यास्यामः ॥ १८॥
उन्मादे वातजे पूर्व स्नेहपानं विशेषवित् । . कुर्य्यादावृतमार्गे तु सस्नेहं मृदु शोधनम् ॥
त्रिविधं प्रयोजनमुक्तं निदाने हिंसाथ पूजार्थ रत्यर्थश्च। तद्विज्ञानं तत्रवाभिहितम् तत्र हिंसार्थमित्यादिना ॥१७॥ - गङ्गाधरः-शेषद्विधाग्रहे साध्यखादाह-रत्यर्चनेत्यादि। रतिकामेन गृहीत उन्मादी अर्चनाकामेन भूतेन गृहीत उन्मादी च यस्तौ द्वौ किमभिशापेनोन्मत्तौ किमभिचारणोन्मत्तो तद् बुद्धा तदङ्गानामभिचाराङ्गाणामुपहासदीनां विधिनोपाचरेत् साध्यखात्। तत्र ग्रहणप्रकारो निदानस्थाने प्रोक्तः। “आलोकयन्तो देवा जनयन्त्युन्मादं गुरुवृद्धसिद्धर्षयोऽभिशपन्तः पितरस्तु धर्षयन्तः स्पृशन्तो गन्धर्वाः समाविशन्तो यक्षा राक्षसास्वात्मगन्धमाघ्रापयन्तः पिशाचाः पुनरारुह्य वाहयन्तः” इति। अथानयोनिजागन्तुकयोचिकित्सोपदेशाय प्रतिजानीते--तत्र द्वयोरपीत्यादि। निजस्य चतुर्विधस्यागन्तुत्वेनेकविधस्य कारणस्य सेविनां समासव्यासाभ्यां भेषजविधिमनुव्याख्यास्यामः। इति प्रतिशा ॥१८॥
गङ्गाधरः-तद्यथा-उन्मादे इत्यादि। बातज उन्मादै विशेषविद् वद्यः पूर्व स्नेहपानमिह वक्ष्यमाणस्य सिद्धस्य स्नेहस्य पानं कुर्यात् कारयेत् ।
चक्रपाणिः-रत्यर्चनादिभूतगृहीतचिकित्सामाह-रतिरर्चनं तत्कामो रत्यर्चनकामः, ताभ्यामुन्मादिनौ रत्वाचनकामोन्मादिनौ । अभिचाराभिशापाभ्यां बुद्धा इत्यभिप्रायेण यः काम्यमर्थमिच्छति स रतिकामा, यस्तु पूजामिच्छति स अर्चनाकामः एवमाचारेण यः काम्यार्थप्रापयर्थं चेष्टते स रतिकामः, योऽर्चनादिकं पुष्पधूपादिकं संगृह्णाति स अर्चनाकामः । इति बुद्धा तदङ्गस्य ततेर नस्य च यदङ्गसाधनं तत्तवर्तनेन तत्सदङ्गोपहाररूपबलिना भैषज्यमन्तविधिना चोपचारः कर्तव्य इति वाक्यार्थः । तत्रत्यादिना भेषजविधानमाह ॥ १८ ॥
चक्रपाणिः-विशेषविदिति वातस्य निवारणरूपं विशेष जानन्। स्नेहपानं वातजे
-
For Private and Personal Use Only