________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२६
चरक-संहिता। उन्मादचिकित्सितम् मातृपितृगुरुवृद्धाचार्योपसेविनं प्रायो दशम्याममावस्यायाञ्च पितरः॥०॥गन्धर्वाः स्तुतिगीतवादिवरतिं परदारगन्धमाल्यप्रियं चौक्षाचारं प्रायो द्वादश्यां चतुर्दश्याश्च ॥०॥ सत्त्ववर्णरूपगर्वशौर्ययुक्तं माल्यानुलेपनहास्यप्रियमतिवाकप्रबलं ® प्रायः शुक्ल कादश्यां सप्तम्याश्च यक्षाः ॥०॥ स्वाध्यायतपोब्रह्मचर्य्यदेवयतिगुरुपूजनारतिं नष्टशौचं ब्राह्मणवादिनं शूरमानिनं देवागारसलिलक्रीड़नरतिश्च प्रायः शक्लपञ्चम्यां पूर्णचन्द्रदर्शने च ब्रह्मराक्षसाः ॥०॥ रक्षःपिशाचास्तु हीनसत्त्वपिशुनान् स्त्रणलुब्धान् प्रायो द्वितीयातृतीयाष्टमीषु पुरुषान् छिद्रमवेक्ष्याभितिथौ प्रायपदेन बोध्यम् ॥ ॥ देवेत्यादि । देवादापसेविनं नरं पायो दशम्यां कृष्णायाम् अमावास्यायाश्च पितरो धर्षयन्ति। प्रायशब्दनान्यस्यामपि तिथौ। कृष्णपक्षे च पितर इति सुश्रुतोक्तः ॥ ॥ गन्धर्वा इत्यादि। स्तुत्यादिषु रतिर्यस्य तम् । परदाराभिगमनादिप्रियम् । चौक्षाचारश्च नरं गन्धर्वाः प्रायो द्वादश्यां चतुर्दश्याश्च धर्षयन्ति। प्रायशब्देन चान्यत्र तिथौ। तदुक्तं सुश्रुते। गन्धर्चाः प्रायशोऽष्टम्यामिति ॥ ॥ सत्त्ववर्णेत्यादि। सत्त्वं शरीरं, वर्णः शरीरस्य, रूपमाकृतिस्तैर्गर्वयुक्त शौर्ययुक्तम् । माल्यादिप्रियम्। अतिशयवाचा प्रबलश्च नरं यक्षाः प्रायः शुक्लायामेकादश्यां सप्तम्याञ्च धर्षयन्ति । प्रायशब्देन प्रतिपदि च। मुश्रुतेनोक्तं "यक्षाश्च प्रतिपद्यथ” इति ।।। स्वाध्यायेत्यादि । स्वाध्यायादिषु देवादिपूजासु चारतियस्य तम् । नष्टशौचम् । ब्राह्मणात्मकवेदवादिनम्। शूरमानिनम् । देवागारे सलिले च क्रीड़ने रतिर्यस्य तं, नरं ब्रह्मराक्षसाः प्रायः शुक्लपञ्चम्यां पूर्णचन्द्रदर्शने चानुमतौ राकायाश्च धर्षयन्ति। प्रायःपदैन अन्यत्रापि तिथौ ॥०॥ रक्षःपिशाचारिखत्यादि। ब्रह्मराक्षसादन्यानि रक्षांसि पिशाचाश्च पुनौनसत्त्वान् हीनमनोबलान् पिशुनान् स्त्रणलुब्धान् नरान् प्रायो द्वितीयातृतीयास्वष्टमीषु छिद्रं निर्जनादिस्थानस्थमवेक्ष्याभिधर्षयन्ति । प्रायः प्राक्तनकर्मवशाद् देवादिभिरुन्माद्यन्त इति ज्ञेयम । अतिवाक्करणमित्यतिभाषमाणम् । छिद्गमिति
• अतिवाकरणमिति चक्रः ।
For Private and Personal Use Only