SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९म अध्यायः] चिकित्सितस्थानम् । २७२५ हासिनं बद्धाबद्धप्रलापिनं साक्षिकूटमलिनं ® सलिलरथ्याचेलतृणाश्मकाष्ठाधिरोहणरतिं भिन्नरुक्षवर्णखरं नग्नं विधावन्तं नैकत्र तिष्ठमानं दुःखान्यावेदयन्तं नष्टस्मृतिञ्च पिशाचोन्मत्तं विद्यात् ॥ १५॥ तत्र शौचाचारतपःस्वाध्यायकोविदं नरं प्रायः शुलपतिपदि त्रयोदश्याश्च देवा धर्षयन्ति ॥०॥ नानशुचिविविक्तसेविनं धर्मशास्त्रश्रुतिकाव्यकुशलञ्च प्रायः षष्ठीनवम्योषयः॥०॥ देवचानपानजातर्दुष्टात्मा भवति च देवशत्रुजुष्टः” इति ॥ ॥ अस्वस्थचित्तेत्यादि । न स्वस्थं चित्तस्थानं हृदयं यस्य तम्। नृत्यगीतहासाः सन्त्यस्य तम्। बद्धाबद्धं सम्बन्धासम्बन्धं प्रलपितु शीलमस्य तम्। साक्षिकूटमलिनम् अक्षिकूटेन नेत्रगोलकसहितमलिनदेहं , सलिलादिषु आरोहणे रतिर्यस्य तम् । रथ्या प्रतोलिर्विशिस्वेत्यनारन्तरम्। भिन्नञ्च रुक्षश्च वर्णः स्वरश्च यस्य तम् भिन्नरुक्षवर्णस्वरम् । नग्नं परिधानवस्त्रं जहद्वर्त्तते । विधावन्तं द्रुतं गच्छन्तम् । एकत्र स्थाने तु न तिष्ठमानम् । स्वगतदुःखान्यावेदयन्तम् । नष्टस्मृतिम् । इति पिशाचोन्मादः। मुश्रुतेऽन्यथा पठितः। “उद्धस्तः कृशपरुषश्विरमलापी दुर्गन्धो भृशमशुचिस्तथातिलोलः। बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टन् भ्रमति रुदन पिशाचजुष्टः” इति ॥१५॥ . गङ्गाधरः-अथैषां ग्रहणकालं ग्राह्यपुरुषांश्चाह-तत्रेत्यादि। शौचादिकोविदं नरं गम्यं प्रायः शुक्लप्रतिपदि त्रयोदश्याश्च शुक्लायां देवा धर्षयन्तीति वक्ष्यते। सुश्रुते “देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि” इत्युक्तमिति । प्रायशब्देन पौर्णमास्यामपि बोध्यम् ॥०॥ स्नानेत्यादि । स्नानसेविनं शुचिवस्तुसेविनं विविक्तस्थानसेविनं धर्मशास्त्रश्रुतिशास्त्रकाव्यशास्त्रकुशलं नरं प्रायः षष्ठीनवम्योः धर्षयन्ति ऋषय इति। कचिदन्यस्यामपि स्थानमेव . नास्तीति. भाषमाणम्। बदाबद्धत्वं सम्बन्धासम्बन्धसङ्करः। तृणावमेध्यमित्यर्थः ॥ १५॥ चक्रपाणिः-तत्र शौचाचारमित्यादिनाभिगमनीयपुरुषान् कालच पृथगाह । शौच आचारो यस्थ स शौचाचारः। शौचाचारादिशुभकर्मयुक्तरचं यद्यप्युन्मादिनस्तथापि शुभकर्मतया * संकूटकूटमलिनमिति चक्रवतः पाठः । ३४२ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy