SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २७२४ | उन्मादचिकित्सितम् चरक संहिता । हासकथानुयोगप्रियं शुभगन्धञ्च गन्धव्र्वोन्मत्तं विद्यात् ॥०॥ असकृत्स्वप्नरोदन हासिनं नृत्यगीतपाठकथान्नपान स्नानमा ल्यधूपगन्धरतिं रक्तविप्लुतानं द्विजातिवैद्यपरिवादिनं रहस्यभाषणं यक्षोन्मत्तं विद्यात् ॥०॥ नष्टनिद्रमन्न द्वेषिणमनाहारम् अप्रतिबलं शस्त्रशोणितमांसर क्तमाल्याभिलासिनं सन्तर्ज्जकं राक्षसोमत्तं विद्यात् ॥०॥ प्रहासानृतवादिनं । देवविप्रवेद्यद्रषावज्ञाभिः स्तुतिमन्त्रशास्त्रोदाहरणैः काष्ठादिभिरात्मपीड़नेन ब्रह्मराक्षसो - न्मत्तं विद्यात् ॥ ० ॥ अस्वस्थचित्तस्थानमनभिमानं + नृत्यगीतरक्तवस्त्रादिषु प्रियम् । शुभगन्धो गात्रे यस्य तम् । सुश्रुते चान्यथा पठितम् । “हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगतिगन्धमाल्यः । नृत्यन् वै प्रहसति चारु चाल्पशब्द गन्धर्व्वग्रहपरिपीड़ितो मनुष्यः " |||| असकृदित्यादि । असकृत् पुनः पुनर्निद्रारोदनहासा विद्यन्तेऽस्य तम् । नृत्यमातादिषु रतिर्यस्य तम् । रक्तश्च विप्लुतञ्चाश्रुपूर्णमक्षि यस्य तम् । द्विजातीन वैद्यांश्व परिवदितुं शीलमस्य तम् । रहस्यं गोपनीयं भाषितु ं शीलमस्य तम् । इति यक्षोन्मादः । सुश्रुतेऽन्यथा पठितः । " ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो व्रतगतिरल्पवाक् सहिष्णुः । तेजस्वी वदति च किं ददामि कस्मं यो यक्षग्रहपरिपीड़ितो मनुष्यः ॥” इति || || नष्टनिद्रमित्यादि । अप्रतिबलं लोके मनुष्यः कोऽपि यस्य बलप्रतिबलो नास्ति तम् | शस्त्राद्यभिलासिनम् । सन्तर्ज्जकं सम्यक् तर्ज्जनकारकम् । एतद्राक्षसोंन्मादः सुश्रतेऽन्यथा पठितः । “मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः । क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति च रक्षसा गृहोतः" || || महासेत्यादि । प्रहासवादिनमनृतवादिनञ्च पुरुषं देवादीनां पाभरेवं स्तुत्यादुदाहरणरेषां काष्ठलगुडादिभिरात्मनि पीड़नेन ब्रह्मराक्षसोन्मत्तं विद्यात् । सुश्रुतेन नॅप पठितः पठितश्चासुरोन्मादः " संवेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः । सन्तृष्टो न भवति त्मक, स्तुतिः स्तावको ग्रन्थः । उदाहरणमिति पठनं स्तुत्यादीनामेव । स्थानमलभमानमिति + प्रहासनृत्यप्रधानमिति पाठान्तरम् । • अन्नपान द्वेषिणमिति चक्रः । * अस्वस्थचित्तं स्यानमलभमानम् इति चक्रः । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy