________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७१६
चरक-संहिता। उन्मादचिकित्सितम् तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धनिवासं हृदयं प्रदृष्य । स्रोतारयधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः॥३ धीविभ्रमः सत्वपरिमवश्च पर्य्याकुला दृष्टिरधीरता च।
अबद्धवाकत्वं हृदयञ्च शून्यं सामान्यमुन्मादगदरय लिङ्गम्॥४ रागलोभभयहर्षशोकचिन्तोद्वेगादिभिर्विहन्यते मन इति कामादिमनोविघातः । विषमाश्च चेष्टा इति विषमाङ्गन्यासो विषमश्च तन्त्रप्रयोगः। इत्येष उन्मादहेतुः। सम्माप्तिमाह-तैरल्पसत्त्वस्येत्यादि। तः कामादिभिहेतुभिररूपं सत्त्वमुपहतं मनो यस्य तस्य प्रचलितायां बुद्धौ तैविरुद्धदुष्टाशुचिभोजनादिभिः प्रदुष्टा मला वातादय बुद्धेनिवासं हृदयमुपसृत्य प्रदूष्य मनोवहानि स्रोतांसि स्रोतोविमानोक्तानि अधिष्ठाय आवृत्य नरस्य चेतः आशु प्रमोहयन्तीत्युन्माद जनयन्ति। उन्मादं पुनर्मनोबुद्धिसंशास्मृतिभक्तिशीलचेष्टाचारविभ्रशं विद्यात् इत्युक्तं निदानस्थाने ॥३॥
गङ्गाधरः-उन्मादस्य सामान्यलक्षणमाह-धीविभ्रम इत्यादि। धीविभ्रम इतस्ततो बुद्धश्चालनम् । सत्त्वपरिप्लवो मनसोऽतिचाञ्चल्यम्। दृष्टेनेत्रयोरितस्ततो व्याकुलतया प्रेरणम्। अधीरता धैर्याभावः। अबद्धवाक्वमविरतं सम्बन्धासम्बन्धवाक्यवचनम् । हृदयञ्च शुन्यं हृदयस्थाने शून्यमिव मन्यते । इति सवोन्मादगदस्य लिङ्गमेतैलेक्षणैरनुमीयतेऽस्योन्मादरोगो जात इति। नैतैः पातिको वा पैत्तिको वा उन्माद इत्येवमादिरुन्मादोऽनुमीयते । नेदं सामान्य पूर्वरूपम्, निदानस्थानोक्तसामान्यपूर्वरूपानक्यात्, स मूढचेता इत्यादिरूपाणाम् अनन्तरोक्तानामपि सामान्यलिङ्गखाच्च ॥४॥
ज्ञयम् । भयहर्षावुपरक्षणौ। तेन क्रोधादयोऽपि मनोऽभिघातका असईयाः। क्रोधन प्रत्याहते मनसि भयहर्षपूर्वक एषोन्मादो भवति । तैरित्यादिना सम्प्राप्तिमाह-अल्पसरवस्याहषसत्वगुणस्य हृदयं यद्यपि धुद्रिनिवासत्वं न अर्थदशमहामूलीयादौ प्रतिपादितमेव, तथापि बुद्धिनिवासस्वोपदर्शनमिह कृतं, हृदयोपघाताद बुद्धअपघातो वक्ष्यमाणो युक्त एव ; आश्रयोपघातेनाहित. स्योपघातः सिद्ध एव। स्रोतांसि मनोवहानीत्यनेन हृदयदेशसम्बन्धिधमन्यो विशेषेण महोवहा दर्शयति । किंवा केवलमेव शरीरं मनोऽभ्यनुभूतं जग्राह। उक्तं हि केवलमेवास्य मनसः शरीरमधिष्ठानभूतम् । चेत इति मनः ॥३॥
चक्रपाणिः-धीविभ्रम इत्यादिना सामान्यमुन्मादपूर्वरूपमाह ॥ ४ ॥
For Private and Personal Use Only