________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमोऽध्यायः। अथात उन्मादचिकित्सितं व्याख्यास्यामः, इतिह .
___ स्माह भगवानात्रेयः॥१॥ बुद्धिस्मृतिज्ञानतपोनिवासः पुनर्वसुः प्राणभृता शरण्यः। उन्मादहेत्वाकृतिभेषजानि कालेऽग्निवेशाय शशंस पृष्टः॥२॥ विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम् ।
उन्मादहेतुर्भयहर्षपूवों मनोविघातो छ विषमाश्च चेष्टा॥ गङ्गाधरः-अथोद्देशक्रमेण यक्ष्मचिकित्सितानन्तरमुन्मादचिकित्सितमाहअथात इत्यादि। पूर्ववद व्याख्येयम् ॥१॥ ....... ......
गङ्गाधरः-उन्मादचिकित्सिते वक्तव्ये निदानस्थाने व्याख्यातस्योन्माद: निदानस्य व्यवसायार्थ श्लोकेन पुनरिह तदुन्मादनिदानमाह-बुद्धिस्मृती.
लदि। बुद्धयादीनां त्रयाणां निवासः सव्वे एव प्राणी ततः का प्रशंसा पुनर्वसोरेतद्वचनेन ? उत्कृष्टबुद्धग्रादय इह बुद्धग्रादिशब्देन तत्प्रशंसावचनार्थ विवक्षिताः। बुद्धिव्यवसायात्यिका ज्ञानं तत्त्वज्ञानम् । उन्मादस्य यानि हेखाकृतिभेषजानि शशंस ॥२॥
गङ्गाधरः-तत्रादौ हेतुमाह-विरुद्धदुष्टेत्यादि। विरुद्धानां संयोगतो द्रव्याणां भोजनं दुष्टानां गरादिभिद्रव्याणां भोजनम् अशुचीनां द्रव्याणाश्च भोजनम् । देवादीनां प्रधषणमभिभक्वाक्योक्तिः। भयश्च हषेश्च भवतः उन्मादादव्यवहितपूर्वकाले भवतीति भयहर्षपूर्वः। मनोविधातः कामक्रोध
चक्रपाणिः-इदानीमुपोद्घातितं राजयक्ष्मचिकित्सितमभिधाय क्रमप्राप्तोन्मादचिकित्सितंबते । अयं क्रमः चरकसंस्कृतां पञ्चाध्यायीमर्शोऽतीसारवीसपमदात्ययद्विवणीयरूपां परित्यज्य शेयः । बुद्धिरूहापोहवती, स्मृतिः स्मरणं ज्ञानमौपदेशिकम् अतीतार्थविषयज्ञानं वा, तपश्चान्द्रायणादि तेसं निवास आश्रय इत्यर्थः । उन्मादहेत्वादौ हेतुग्रहणे नात्र वक्तव्याः संप्राप्तिस्थितिरूपकालाः उन्मादगम्यहेतुविषयतया गृह्यन्ते। आकृतिग्रहणेनाभिधेयस्योन्मादस्वरूपस्य ग्रहणं ज्ञेयम् ॥१॥
चक्रपाणिः-सम्प्रत्युन्मादहेतुमाह-विरद्धेत्यादि। विरुद्ध संयुक्तमत्स्यादि, दुष्टं. गरादि भत्यर्थदोषजनकच। अशुच्यपवित्रम्। भयहर्षपू: मनोऽभिधात इत्यत्र पूर्वशब्दः कारणपाचित्वेन भयहर्षकारणकेन मनोऽभिधात इत्यर्थः। एतद विरुद्धाहारादि यथासम्भवं वा कारणं
मनोऽभिघातः इति बहुषु ग्रन्थेषु पाठः ।
For Private and Personal Use Only