SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २७१४ चरक संहिता | I सत्येनाचारयोगेण मङ्गलरप्यहिंसया । वद्य विप्रार्चनाच्चैव रोगराजो निवर्त्तते ॥ ८६ ॥ यया प्रयुक्तया चेष्टा राजयक्ष्मालुरो निरुक् । तां वेदविहितामिष्टिमारोग्यार्थं प्रयोजयेत् ॥ ८७ ॥ तत्र श्लोकौ प्रागुत्पत्तिर्निदानानि प्रागुरूपं रूपसंग्रहः । समासाद व्यासतश्चोक्तं भेषजं राजयक्ष्मणः ॥ नामहेतुरसाध्यत्वं साध्यत्वं कुच्छ्रसाध्यता । इत्युक्तः संग्रहः कृत्स्नो राजयक्ष्मचिकित्सिते ॥ ८८ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने राजयक्ष्मचिकित्सितं नाम अष्टमोऽध्यायः ॥ ८॥ मैथुनवज्र्ज्जनेन । सत्येनाचारयोगेण मिथ्याचारवज्र्ज्जनेन । मङ्गलैः कर्म्मभिः । वैद्यानां विप्राणाञ्चाच्चनाच्च रोगराजो राजयक्ष्मा निवर्त्तते ॥ ८६ ॥ गङ्गाधरः- युक्तिव्यपाश्रयमुक्त्वा देवव्यपाश्रयमाह – ययेत्यादि । राजयक्ष्मातुरो यया इष्ट्या यशेन प्रयुक्तया निरुक् निवृत्तरोगो भवेत् वेद यस्या इष्टे राजयक्ष्मनाशाशीः श्रयेत वेदविहितां तामिष्टिं राजयक्ष्मण आरोग्यार्थं प्रयोजयेदिति ।। ८७ ।। गङ्गाधरः - राजयक्ष्माधिकारोक्ताध्यायार्थमाह- तत्र श्लोकाविति । श्लोकौ तु प्रागुत्पत्तिरित्यादि ॥ ८८ ॥ इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थान जल्पे राजयक्ष्मचिकित्सितजल्पाख्या अष्टमी शाखा ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only [ राजयक्ष्मचिकित्सितम् चक्रपाणिः - अतः परं मनस आनुकूल्यं यक्ष्मारम्भकदोषं हन्तीत्यतो यया च युक्तया चेष्ट्यादौ सदैव मनोऽनुकूलं स्यात् तथैव वर्त्तनीयञ्च ॥ ८६ ॥ ८७ ॥ चक्रपाणिः - प्रागुत्पत्तिरित्यादि संग्रहः । नामहेतुरिति स राज्ञः पूर्व्वमासीदुद्वै राजयक्ष्मा तनो मतः । इति संग्रहः ॥ ८८ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुग्वदीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां राजयक्ष्मचिकित्सितं नाम अष्टमोऽध्यायः ॥ ८ ॥
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy