________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
..
.
.
८म अध्यायः] चिकित्सितस्थानम् ।
२७१३ समातीतानि धान्यानि कल्पनीयानि शुष्यताम् । लघून्यहीनवीर्याणि तानि पथ्यतमानि च ॥ यच्चोपदेच्यते किञ्चित् क्षतक्षीणचिकित्सिते। यचिमणस्सत् प्रयोक्तव्यं बलमांसाभिवृद्धये ॥ ८॥ अभ्यङ्गोत्सादनैः स्नानैरवगाहैर्विमार्जनः। वस्तिभिः क्षारसपिभिः ® मांसमांसरसौदनैः॥ इष्टमद्यमनोज्ञानां गन्धानामुपसेवनैः। यथर्तुविहितः स्नानैर्वासोभिरहतैः प्रियः॥ सुहृदां रमणीयानां प्रमदानाञ्च दर्शनैः। गीतवादित्रशब्दैश्च प्रियश्रुतिभिरेव च ॥ हर्षणाश्वासनैनित्यं गुरूणामुपसेवनैः।
ब्रह्मचर्येण दानेन तपसा देवतार्चनैः॥ भोज्यमन्नम् इष्टयञ्जनादिभिरुपहितमिष्टश्च हितश्च सुखपदमद्यात्। अन्नाथ धान्यान्याह-समातीतानीत्यादि। संवत्सरातीतानि लघुनि चाहीनवीयर्याणि च धान्यानि शुष्यतां कल्पनीयानि यतस्तनि पथ्यतमानि भवन्तीति । अथान्यत् अतिदेशेन यक्ष्मिण औषधमाह-यच्चेत्यादि। बलमांसाभिवृद्धये यक्ष्मरोगनिवृत्तिसहितबलमांसद्धये ॥ ८५॥ - गङ्गाधरः-अथ क्रियाकल्पमाह-अभ्यङ्गोत्सादनैरित्यादि। वस्तिभिः इत्यस्य विशेषणं क्षारसपिभिः, यवक्षारमिश्रितसपिभिः वस्तिभिः। मांसयथोक्तांसरसौदनैश्च । मनोज्ञानां गन्धानामुपसेवनैश्च । यथत्तु विहितः स्नानः। अहतैः प्रियैर्वस्त्र परिहितैः। सुहृदादीनां दर्शनैः। प्रियश्रुतिभिर्गीतवादित्रशब्दः । हर्षणाश्वासनवचोभिः। नित्यं गुरूणामुपसेवनैः। ब्रह्मचययण वाङ्मन शरीरैः
चक्रपाणिः-दैवम्पपाश्रयचिकित्सा कर्तव्या इत्यत आह-गन्धैरियादि ॥८५ ॥ * क्षीरसपिभिरिति पाठान्तरम् ।
For Private and Personal Use Only