________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७१२
चरक-साहता। (राजयक्ष्मचिकित्सितम् जीवन्तीं शतवीर्याञ्च विकशां सपुनर्नवाम् । अश्वगन्धामपामार्ग तर्कारी मधुकं बलाम् ॥ विदारी सर्षपं कुष्ठं तण्डुलानतसीफलम्। । माषांस्तिलांश्च विल्वञ्च सर्वमेकत्र चूर्णयेत् ॥ यवचूर्ण द्विगुणितं दध्ना युक्तं समाक्षिकम् । एतदुत्सादनं काय वर्णपुष्टिबलप्रदम् ॥८४॥
उद्वत्तनम्। गौरसर्षपकल्केन गन्धैश्चापि सुगन्धिभिः । स्नायाहतुसुखैस्तोयैर्जीवनीयोषधैः शृतः॥ गन्धैः समाल्यै सोभिभूषणैश्च विभूषितः । स्पृश्यान् संस्पृश्य संपूज्य देवताः सभिषगद्विजाः॥ .. इष्टवर्णरसस्पश-गन्धवत् पानभोजनम् । इष्टमिष्टरुपहृतं हितमद्यात् सुखप्रदम् ॥ गङ्गाधरः-तदुत्सादनयोगमाह--जीवन्तीमित्यादि । शतवीर्या श्वेता । विकशा मञ्जिष्ठा। विल्वं विल्वसूलम्। सर्वमिदं समभागेनैकत्र चणयेन् । सर्वचूर्णाद द्विगुणितं यवचूर्ण मधुदधिभ्यां द्रवीकृत्य गात्रे प्रक्षयेत् । एतद यक्ष्मिणो बलपुष्टिवर्णपदमुत्सादनम्। जीवन्त्यादुरद्वर्तनम् ॥ ८४॥ __ गङ्गाधरः-अपरञ्च वहिर्मार्जनमाह-गौरेत्यादि । गौरसर्षपकल्केन भृतैः शीतकाले। सुगन्धिभिः गन्धैर्द्रव्यैः शृतैः उष्णकाले । जीवनीयौषधैः भृतैः तोयैः वर्षाकाले स्नायादिति। अथवा सः शृतैस्तोयैः ऋतुसुरवैः सुखोष्णशीतलादिरूपैः स्नायादिति । इत्थं स्नाला सुगन्धिद्रव्यद्रवेणानुलिप्तगात्रः सन् माल्यैवस्वैः भूषणैश्च विभूषितः सन् स्पृश्यान् गोहिरण्यादिकान् संस्पृश्य देवता भिषजो द्विजांश्च सम्पूज्य इष्टवर्णरसस्पर्शगन्धयुक्तं पानभोजनं पानं पातव्यद्रव्यं भोजनं
चक्रपाणिः-उत्तीर्णमित्यादि-पुनरुक्कैरिति पुनःपुनः मईयेत्। पुनराक्तमिति पाछे छ पुनर्मिश्रकैः सुखकरैराक्तमित्यर्थः। उत्सादयेदित्युवर्तयेत् ॥ ८३ ॥
चक्रपाणिः-विकशा मञ्जिष्ठा, तर्कारी विजया, समाक्षिकमितीचन्माक्षिकम् ॥ ८ ॥
For Private and Personal Use Only