________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः]
चिकित्सितस्थानम् ।
२७११ जीवन्तीपिप्पलीगभं सक्षीरं शोषनुद् घृतम् । यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुना सह ॥ सिद्धानां सर्पिषामेषामयादन्नेन वा सह। शष्यतामेष निर्दिष्टो विधिराभ्यवहारिकः॥२॥ वहिःस्पर्शनमाश्रित्य प्रवक्ष्यामि परं विधिम् । क्षीरस्नेहाम्बुकोष्ठे तं स्वभ्यक्तमवगाहयेत् ॥ स्रोतोविबन्धमोक्षाथ बलपुष्टार्थमेव च। उत्तीर्ण मिश्रकैः स्नेहैः पुनराक्तैः * सुखैः करैः ।
मृद्गीयात् सुखमासोनं सुखश्चोत्सादयेन्नरम् ॥३॥ कल्कश्चतुगु णक्षीरः शृतं घृतं स्रोतसां शोधन प्रयोजयेत्। तथा रास्नादि साध्यं घृतं प्रयोजयेत् ॥ ८१॥
गङ्गाधरः-जीवन्तीत्यादि। जीवन्तीपिप्पलीगर्भमिति वचनाद् जीवन्ती पिप्पलीति द्वयं पादिकं चतुगुणं क्षीरं साधितं घृतं शोषनुत् । एषां प्रयोगमाहयवाग्वेत्यादि। सिद्धानामेषां मांसादमांसस्वरससिद्धादीनां सर्पिषां मात्र यवाग्वा सह पिबेत्, अथवा मधुना लिह्यात्, अथवान्नेन सहायादिति त्रिविधः प्रयोगः। एष शुष्यतामाभ्यवहारिका पानाहारादिको विधिनिर्दिष्टः॥ ८२॥ ___गङ्गाधरः-अथ वहिर्मा नसेविन इति यदुक्तं तवहिर्माज्जैनयोगमाह-वहिःस्पर्शनमित्यादि। वहिःस्पशनं वहिर्माज्जैनमाश्रित्य परं विधि प्रवक्ष्यामि। तद यथा-क्षीरस्नेहाम्बुकोष्ठे तैलाभ्यक्तं तं यक्ष्मिणमवगाहयेत् । क्षीरं घृतादिस्नेहो जलश्च समभागेन अथवा यथायोग्यं मेलयिखा कोष्ठे स्थापयेत्, तत्रावगाहयेत् स्रोतोविबन्धमोक्षार्थं बलपुष्टयथेमेव च। एवमवगाह्य तत उत्तीर्ण तं सुखमासीनं मिश्रकैः स्नेहधूततैलादिभिर्मिश्रितैः आक्तः सुरवैः सुखस्पर्शः करैः पाणितलैः मृद्गीयात् । एवमेव गात्रमईनानन्तरं तं नरमुत्सादयेदिति ॥ ८३॥ बल्कार्थम् । पिप्पलीत्यादिना नियतमानं घृतं चतुगुणेन क्षीरेण साध्यते षट्पलोक्तद्रव्यघृतमानवत् ॥ ७९-८२॥
* पुनरुक्तैरिति चक्रतः पाठः ।
For Private and Personal Use Only