________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९म अध्यायः ]
चिकित्सितस्थानम् |
२७१७
समूढचेता न सुखं न दुःखं नाचारधम्मं कुत एव शान्तिम् । बिन्दत्यपास्तस्मृतिबुद्धिसंज्ञो भ्रमत्ययं चेत इतस्ततश्च ॥ ५ ॥ समुद्भ्रमं बुद्धिमनःस्मृतीनामुन्माद मागन्तु निजोत्थमाहुः । तस्योद्भवं पञ्चविधं पृथक् तु वक्ष्यामि लिङ्गानि चिकित्सितञ्च ॥ ६ रुक्षाल्पशीतान्न विरेकधातु-क्षयोपवासैर निलोऽतिवृद्धः । चिन्तादिजुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिञ्चाप्युपहन्ति शीघ्रम् ॥
गङ्गाधरः- तानि चाह - स मूढचेता इत्यादि । स धीविभ्रमादिमान् पुरुषो मूढचेताः सन् सुखं दुःखञ्च आचारं धर्म्मश्च न बिन्दति, कुत एव शान्तिं बिन्दति । शान्तिमलभमानः पुनरपास्तस्मृतिबुद्धिमंशः सन्नयमितस्तत चेतो भ्रमति भ्रामयति, इति णिजर्थोऽन्तर्भूतः । इत्येवं बुद्धिमनःस्मृतीनां समुद्रभ्रममागन्तु निजोत्थमुन्मादमाहुरिति । निदानस्थाने पूव्वमुक्तमुन्मादं पुनमेनोबुद्धयादिविभ्रंशं विद्यादिति । तस्मात् निजागन्तून्मादस्य सामान्यलिङ्ग, यः पूर्वरूपमिदं धीविभ्रमादिकं व्याचष्टे तत् कथमुपपद्यते ? पञ्चोन्मादा भवन्तीति निदानस्थाने प्रोक्तं, तदेव संग्रहेणाह - तस्योद्भवमित्यादि । तस्योन्मादस्य पञ्चविषमुद्भवं निदानस्थानेऽभिहितं वातपित्तकफ सन्निपातागन्तुनिमित्तं तत्र दोषनिमित्तं चतुर्व्विधमागन्तुजमेकविधं, पृथक् पृथक् वक्ष्यामि पृथक् लिङ्गानि पृथक् चिकित्सितञ्च वक्ष्यामि ॥ ५ । ६ ।।
गङ्गाधरः- तद्यथा- रुक्षाल्पशीतान्नेत्यादि । रुक्षान्नमल्पान्नं शीतान्नम् । विरेको विरिच्यते दोषः शरीरान्निःसार्यते येन स विरेको वमन विरेचनश्च । धातुक्षयो रसादीनां ह्रासः । उपवासोऽनशनम् । एतैरतिवृद्धोऽनिलः चिन्तादिः जुष्टं चिन्ताकामक्रोधशोकलोभभयहर्षादिभिः सेवितं हृदयं मनः प्रदूष्य बुद्धिं
चक्रपाणिः कुत एव शान्तिमिति कुतोऽपि शान्तिं निव्वृतिं न बिन्दति । संज्ञानामोल्लेखन ज्ञापनम् । अयं चेत इति ॥ ५ ॥
चक्राणिः – उन्मादसंज्ञाव्युत्पत्तिमाह--समुद्भ्रममित्यादि । तत्र भ्रम उन्माद इत्येोऽर्थः मनोविश्रमः चिन्तनादिना चिन्तानिदानोक्तसंज्ञादिविभ्रमोद्वाप मनोविभ्रम एवान्तर्भावनीयः संज्ञादिविभ्रमस्यापि तज्जन्यत्वात् । तस्योद्भवमित्यादौ यद्यपि पञ्चानां मध्येऽसाध्यस्य सान्नि पातिकस्य चिकित्सितं न वक्तव्यम्, तथापि छत्रिणो गच्छन्तीति न्यायेन बाहुल्यमाश्रित्य
३४१
For Private and Personal Use Only