________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०८
चरक संहिता। [राजयक्ष्मचिकित्सितम् गजखड़ गितुरगाणां वेशवारीकृतं भिषक् । . दद्यान्महिषशब्देन मांसं मांसाभिवृद्धये ॥ ७॥ मांसेनोपचिताङ्गानां मांसं मांसकरं परम् । तीक्ष्णोषणलाघवाच्छस्तं विशेषान्मृगपक्षिणाम् ॥ मांसानि यान्यनिन्यानि सुस्वादूनि प्रयोजयेत् । तेषूपधा सुखं भोक्तं तथा शक्यानि तानि हि॥ जानन् जुगुप्सां नैवाद्याजग्धं वा पुनरुल्लिखेत् ।
तस्मात् सद्योऽपसिद्धानि मांसान्येतानि दापयेत् ॥ ७६ ॥ क्षुद्रव्याघ्रः। गजखड़गितुरङ्गाणां मांसं वेशवारं कृता महिषमांसशब्दन मांसाभिट्टद्धये दद्यात् ॥ ७५॥ .,
गङ्गाधरः-कस्मादेषां मांसं विशेषतो मांसाभिटद्धये दद्यादित्यत आहमांसेनेत्यादि। मांसेनोपचिताङ्गानां मृगपक्ष्यादीनां प्राणिनां मांसं परं मांसकरम्। सर्च हि मांसं मांसं व?यनि सामान्यादित्यभिप्रायेण । मांसादमांसमप्युपयोगार्थमाह- तीक्ष्णोष्णेत्यादि। मृगाणां सर्वेषां पक्षिणाश्च मांसादानां मांस तीक्ष्णोष्णलाघवाद विशेषाच्छस्तम्। एवं यान्यनिन्द्यानि स्वादुनि मांसानि तानि प्रयोजयेत्। तेष्वनिन्धषु मांसेपधा सुखं नामतः सुखं नाश्रद्धाजनककुत्सितनाम तस्माद्भोक्तु शक्यानि तानि मांसानि भवन्ति । ननु किमर्थं गोधादिमांसं वर्हि मांसादिनाना दद्यादित्यत आह-जानन्नित्यादि। उपधंया नाना जुगुप्सां जानन् नैवाद्यात् । यदि वाद्यात् तदा जग्धं तन्मांसं घृणयोल्लिखेत् वमेत् । . तस्मादेतानि गृध्रादीनां मांसानि भोक्तमशक्यानि सद्योऽपसिद्धानि तत्परिवर्तनशब्देन वहिप्रभृतिशब्देन दापयेद् यथोपधासुखेन भोक्तुं तानि शक्यन्ते न चोल्लिखेत् ।। ७६ ॥ विशेषो प्रायः सर्पाकारः। गण्डूपदो भूमिलता। लोपाकः. अल्पगालो लाङ्गलप्रधानः ॥ ७५॥ . चक्रपाणिः-- सम्प्रत्यस्यान्यमांसप्रयोजनमाह-मांसानीत्यादि। अनभ्यासादिस्यभक्ष्यस्दैन । उपधेति चान्यशब्देन दानमिति यावत् । तथेति संज्ञोपादाने सुखं यथा भवति तथा भोक्त शक्यते । अभक्ष्यत्वे तु ज्ञाते दोषमाह-जाननित्यादि ॥ ७६ ॥
* मांसानि यान्यनभ्यासादनिष्टानि प्रयोजयेत्। इति वा पाठः ।
For Private and Personal Use Only