SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org टम अध्यायः ] चिकित्सितस्थानम् । शिखितित्तिरिदक्षाणां हंसानां शूकरोष्ट्रयोः । खरगोमहिषाणाञ्च मांसं मांसकरं परम् ॥ योनिरष्टविधा प्रोक्ता मांसानामन्नपानिके । तां परीक्ष्य भिषग् विद्वान् दद्यान्मांसानि शोषिणे ॥ ७७ ॥ प्रसहा भूशयानूप- वारिजा वारिचारिणः । आहारार्थं प्रयोक्तव्या मात्रया वातशोषिणे । प्रतुदा विष्किराश्चैव धन्वजाश्च मृगद्विजाः । कफपित्तपरीतानां प्रयोज्याः शोषरोगिणाम् ॥ विधिवत् सूप सिद्धानि मनोज्ञानि मृदूनि च । रसवन्ति सुगन्धीनि मांसान्येतानि दापयेत् ॥ ७८॥ मांसमेवाश्नतः शोषो माध्वीकं पिबतोऽपि वा । नियतस्याल्पचित्तस्य चिरं काये न तिष्ठति ॥ Acharya Shri Kailassagarsuri Gyanmandir चक्रपाणिः - योनिरष्टविधेति प्रसहेत्यादिना ॥ ७७ ॥ ७८ ॥ ३४० गङ्गाधरः -- तत्र श्रेष्ठं मांसकर मांसवाह - शिखीत्यादि । दक्षेति कुक्कुटः । योनिरष्टविधा मांसानामन्नपानादिकेऽध्याये या प्रोक्ता तां योनिं परीक्ष्य विद्वान् भिषक शोषिणे मांसानि दद्यात् ॥ ७७ ॥ गङ्गाधरः- तत्र विशेषमाह प्रसहा इत्यादि । अन्नपानादिके संज्ञा कृता येषां प्रसादिस्ते वातशोषिणे मात्रयाहारार्थं प्रयोक्तव्याः । प्रतुदा इत्यादि । येषां प्रतुदादिसंज्ञाः कृतास्ते मृगद्विजा मृगाः पक्षिणश्वाहारार्थं मात्रया कफपित्तपरीतानां शोषरोगिणां प्रयोज्याः । विधिवदित्यादि । एतानि यथाविहितानि मांसानि यथा मनोज्ञानि मृदूनि रसवन्ति स्वादुमन्ति सुगन्धीनि च भवन्ति तथैवोप सिद्धानि शोषरोगिणे दापयेत् ॥ ७८ ॥ गङ्गाधरः- न केवलमेषां मांसं मांसवर्द्धनं शोषरोगघ्नञ्च भवति तदाहमांसमित्यादि । मांसमश्नतः शोषरोगिणो माध्वीकं पिवतो वा नियतस्य अल्पचित्तस्य शोषो राजयक्ष्मा कार्य चिरं न तिष्ठति अचिरादपति । मद्यविशेष For Private and Personal Use Only २७०६
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy