________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] चिकित्सितस्थानम् ।
२७०७ शुष्यतां क्षीणामांसानां कल्पितानि विधानवित् । दद्यान्मांसादमांसानि वृहणानि विशेषतः॥ शोषिणे वर्हिणं दद्याद वर्हिशब्देन वा परान् । गृध्रान् नकुलान् भासांश्च * विधिवत् सूपकल्पितान् ॥ काकांस्तित्तिरिशब्देन वर्मिशब्देन चोरगान् । संभृष्टान् मत्स्यशब्देन दद्याद् गण्डूपदानपि । लोपाकान् स्थूलनकुलान् विडालांश्चोपकल्पितान् । शृगालशावांश्च भिषक् शशशब्देन दापयेत् ।। सिंहानृतांस्तरखंश्च व्याघ्रानेवंविधांस्तथा।
मांसादान् मृगशब्देन दद्यान्मांसाभिवृद्धये ॥ भवेद् यस्मात् तस्मादल्पानिजने गुड़िको कल्पयेदिति। तालीशाय चणं गुड़िका च ॥७४॥
गङ्गाधरः--अथ शरीरक्षयनिवृत्तिभेषजमाह-शुष्यतामित्यादि । भुष्यता क्षीणमांसानां यक्ष्मिणां विधानविद् वैद्यो मांसादमांसानि व्याघादीनां मांसा. दानां मांसानि रसादिरूपेण कल्पितानि हणानि दद्यात्। तत्रापि विशेषतः शोषिणे वर्हिणां मांसानि दद्यात्। अलाभे वहिणस्तु सूपकल्पितानपरान् गृध्रनलभासांश्चापरान् मांसादानभक्ष्यतया भोक्तमशक्यत्वेन चर्दिशन्देन वधिमांसच्छलेन दद्यात्। तित्तिरिमांसशब्देन काकान् दद्यात्। वर्मि'मत्स्यशब्देन उरगान् दद्यात्। गण्डूपदानपि संभृष्टान् मत्स्यशब्देन दद्यात् । लोपाकान् क्षुद्रशृगालान् देशभेदे भामाख्यान् स्थूलनकुलान् देशभेदे नंउल इंति ख्यातान् एवं विडालान् उद्धगालशावांश्च शशमांसशब्देन दापयेत्। तथा सिंहादोन् मृगमांसशब्देन दापयेत्। तत्र तरक्षः चक्रपाणिः-सूपकल्पितानिति सम्यक् संस्कारेण कृतान् । बर्मिशब्देन छो? मत्स्य* गोधान् नकुलांश्चाषांश्च इति पाठान्तरम् ।
For Private and Personal Use Only