________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः ]
चिकित्सितस्थानम् ।
यमानी तिन्तिड़ीकञ्च पञ्चैते मुखधावनाः । श्लोकपादेष्वभिहिता रोचना मुखशोधनाः ॥ गुड़िकां धारयेदास्ये चुर्वा शोधयेन्मुखम् । एषामालोड़ितानाञ्च धारयेत् कवड्रग्रहान् ॥ ७१ ॥ सुरामाध्वीकसीधूनि तैलस्य मधुसर्पिषोः कवलान् धारयेदिष्टान् चीरस्येत्तुरसस्य च ॥ ७२ ॥ यमानीं तिन्तिड़ोकञ्च नागरं साम्लवेतसम् । दाडिमं बदरञ्चाम्लं कार्षिकञ्चोपकल्पयेत् ॥ . धान्यसौवर्चलाजाजी - वराङ्गञ्चार्द्ध कार्षिकम् । पिप्पलीनां शतैकञ्च द्वे शते मरिचस्य च ॥ शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत् । जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम् ॥
पिप्पली चैतयोः काथो मुखवावनश्वतुथः । यमानीतिन्तिड़ीकयोः काथः पञ्चमो मुख पावनः । इत्येते पञ्च मुखधावनाः श्लोकपादेषु पञ्चस्वभिहिता रोचना मुखशोधनाथ एषां पञ्चानां योगानां गुड़िकामास्ये धारयेत् । एषां पञ्चानां योगानाञ्च वगैर्वा मुखं घृष्ट्वा शोधयेत् । एषां पिष्टानामालोड़ितानां कवग्रहानास्ये धारयेत् ।। ७१ ।।
|
गङ्गाधरः - अन्यान् कवड़ग्रहानाह--सुरामित्यादि । सुरादीनां चतुर्णामेकस्य मिलितयोमधुसर्पिषोः कवड़ानिष्टान् धारयेत् । क्षीरस्य कवड़ान् इक्षुरसस्य च कवड़ान् धारयेत् ॥ ७२ ॥
गङ्गाधरः - अथारोचकहारिभक्ष्ययोगमाह - यमानीमित्यादि । बदरञ्चाम्ल शुष्कम् । एषां षण्णां कार्षिकाणि, धान्यादीनां चतुर्णामर्द्धकार्षिकं वराङ्गं खक, पिप्पलीनामेकं शतं गुड़कानामाकृतिमानात् । मरिचस्य गुड़कस्य
चक्रपाणिः - तेजवती चविका । मुखशोधना इति मुखगतदोषशोधना इति ॥ ७१ ॥
1
For Private and Personal Use Only
२७०५
,