________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०४
चरक-संहिता। राजयक्ष्मचिकित्सितम् स्थिरादिपञ्चमूलेन पाने शस्तं शृतं जलम् । तक सुरा सचुक्रीका दाडिमस्याथवा रसः ॥ ६८॥ इत्युक्तं भिन्नशकृतां दीपनं पाहि भेषजम् । वक्ष्याम्यूई रुचिकरं मुखवैरस्यनाशनम् ॥ ६६ ॥ ® द्वौ कालो दन्तपवनं + भक्षयेन्मुखधावनम् । तद्वत् प्रक्षालयेदास्यं धारयेत् कवलग्रहान् ॥ पिबेद धूमं ततो मृष्टमद्याद दीपनपाचनम् । भेषजं पानमन्नञ्च हितमिष्टोपकल्पितम् ॥ ७० ॥ त्वङमुस्तमेला धान्यानि मुस्तमामलकं त्वचम् । दार्वी त्वचो यमानी च तेजोहा पिप्पली तथा ॥ गङ्गाधरः-पानीयमाह-स्थिरादिपञ्चमूलेनेत्यादि । शालपण्यादिपञ्चमूलेन अद्धेशृतं. जलं पानेऽतिसारयुक्तयक्ष्मिणः शस्तम्। अथवा तक्रं पाने शस्तम् । अथवा स चुक्रीका चुक्रिकासन्धानयुक्ता सुरा पाने शस्तम्। अथवा दाडिमस्य रसः पाने शस्त इति ॥ ६८॥ . गङ्गाधरः-उपसंहरति-इत्युक्तमित्यादि। भिन्नशकृतां वच्चौगदियक्ष्मिणाम् । वक्ष्याम्यत ऊर्द्ध यक्ष्मिणोऽरुचिमतो रुचिकरं सुखवरस्यनाशनमिति ॥ ६९ ॥
गङ्गाधरः-द्वौ कालावित्यादि। दन्तपवनं दन्तकाष्ठं मुखधावनं भक्षयेत् चव्वेयेत् । तद्वदास्यं प्रक्षालयेत् । कवड़ग्रहान् धारयेत् । धूमं पिबेत् । ततो दीपनपाचनं द्रव्यं मृष्टं परिमृष्याछात्। एवं हितञ्च स्वाभीष्टश्चोपकल्पितं भेषजं पानमनश्च रुचिकरं स्यात् ॥ ७॥
गङ्गाधरः-तत्र भेषजमाह-खङमुस्तेत्यादि। बङमुस्तकैलाधान्यैः कथितैः मुखधावन एकः । मुस्तामलकवभिः कथिताभिद्वितीयो मुखधावनः। दार्ची च बचश्च यमानी चेति त्रयाणां काथैस्तृतीयो मुखधावनः। तेजोहा चवी चक्रपाणिः-सचुक्रिकेति चुक्रयुक्तसुरेत्यर्थः ॥ ६५-६८ ।
चक्रपाणि:-द्वौ कालाविति सायं प्रातः। अथवा पवनैरिति करक्षककरवीराादभिस्तिकअटुकैः । तद्वदिति तिक्तकटुकृतैर्जलैः ॥ ६९ ॥ ७० ॥
* दीपनं प्राहि निर्दिष्टं भेषजं भिन्नवर्चसे। परं मुखस्य वैरस्य-नाशनं रोचनं शृणु" ॥ इति पाठान्तरम्। + दन्तपवनैरिति चक्रः।
For Private and Personal Use Only