SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८म अध्यायः ! चिकित्सितस्थानम् । वेतसार्ज्जुनजम्बूनां मृणालीकृष्णगन्धयोः । श्रीपर्णीमदयन्त्योश्च यूथिकायाश्च पल्लवान् ॥ मातुलुङ्गस्य धातक्या दाड़िमस्य च कारयेत् । स्नेहाम्ललवणोपेतान् खड़ान् सांग्राहिकान् परान् ॥ ६५ ॥ चार्य्याश्चुक्रिकायाश्च दुग्धिकायाश्च कारयेत् । खड़ान् दधिसरोपेतान् ससर्पिष्कान् सदाड़िमान् ॥ ६६॥ मांसानां लघुपाकानां रसाः संग्राहकैर्युताः । व्यञ्जनार्थं प्रशस्यन्ते भोज्यार्थ रक्तशालयः ॥ ६७ ॥ Acharya Shri Kailassagarsuri Gyanmandir २७०३ घृतादिस्नेह कपित्थाद्यम्लश्च यथायोग्यं पाठादित्रिकान्यतमकाथे मुद्गादिविदलानि पक्वा तत्र दत्त्वा खड़ान यूषान् परान सांग्राहिकान अतिसारस्तम्भकान कारयेत् । इति त्रयः खड़ाः ॥ ६४ ॥ गङ्गाधरः - वेतसेत्यादि । वेतस इत्यम्लवेतसः । वेतसादीनां त्रयाणां पल्लवान काथयिता, मृणाली वीरणं कृष्णगन्धा शिग्रुस्तयोः पल्लवान कार्यायला, श्रीपर्णीमदयन्त्योश्च पल्लवान् काथयित्वा यथिकायाश्च पल्लवान् कार्ययिता, मातुलुङ्गस्य पल्लवान् काथयित्वा धातक्याः पल्लवान् काथयित्वा दाड़िमस्य च पल्लवान् काथयित्वा, अर्द्धमृतेन तेन तेनैकैकेन काथेन मुद्रादिविदलानि पक्वा स्नेहाम्ललवणोपेतान् यषान् खड़ान् कारयेत् । व्यक्ताम्लस्पष्ट लवणा यूषाः स्वड़ाः । तान् परान् सांग्राहिकान् प्रकरणाद यक्ष्मिणो वच्चगदे । एते सप्त खड़ाः ॥ ६५ ॥ For Private and Personal Use Only गङ्गाधरः- अपरान् खड़ानाह-चार्य्या इत्यादि । चुक्रिकाम्लवेतसः ( लोटकः) । दुग्धिका । आसां प्रत्येकं पत्रेण दधिसरोपेतान् सर्पिर्युक्तान् दाहिमाम्लसहितांस्त्रीन् खड़ान् यूषान् कारयेत् ॥ ६६ ॥ : गङ्गाधरः- मांसानामित्यादि । लघुपाकानां शशकादीनां मांसस्य रसाः साहित्यशला बालकादिभियंता अतिसारयुक्तयक्ष्मिणः व्यञ्जनार्थं प्रशस्यन्ते । भोज्यार्थम् अन्नयवाग्वर्थं रक्तशालयः प्रशस्यन्ते ॥ ६७ ॥
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy