________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०२ चरक-संहिता। राजयक्ष्मचिकित्सितम्
प्रायेणोपहताग्नित्वात् सपिच्छतिसार्य्यते। प्राप्नोति चास्यवरस्यं न चान्नमभिनन्दति ॥ तस्याग्निदीपनान् योगानतीसारनिवर्हणान्। वक्तशुद्धिकरान कुर्य्यादरुचिप्रतिबाधनान् ॥ ६० ॥ सनागराश्चन्द्रयवाः पातव्यास्तण्डुलाम्बुना। सिद्धां यवागू जीर्णान्ते चाङ्गेरीतकदाडिमः ॥ ६१ ॥ पाठां विल्वं यमानीश्च पातव्यं तक्रसंयुतम् । दुरालभां शृङ्गबरं पाठाञ्च सुरया सह ॥ ६२ ॥ जम्बानमध्यं विल्वश्च सकपित्थं सनागरम् । सुरामण्डेन पातव्यमतीसारनिवृत्तये ॥ ६३ ॥ एतानेव च योगांस्त्रीन् पाठादीन् कारयेत् खड़ान् । सचुक्रधान्यान् सस्नेहान् साम्लान् सांग्राहिकान् परान् ॥६४॥ गङ्गाधरः-यक्ष्मिणो वच्चोगदप्रतिकारमाह-प्रायेणेत्यादि। यक्ष्मी प्रायेण उपहसानिलाद सपिच्छं पिच्छासहितमतिसादयेते, आस्यवरस्यश्च प्राप्नोति। ततोन्नं न चाभिनन्दति द्वेष्टि। तस्य यक्ष्मिणः खल्वग्निदीपनादीन् योगान् कुर्यात् ॥६॥
गाधरः-अमिदीपनादीन् योगानाह-सनागरा इत्यादि। नागरचणसहिता इन्द्रयवचूर्णास्तण्डुलजलेन पातव्यास्तज्जीर्णान्ते चारीतकदाडिमफलः सिद्धां यवागू मण्डपेयाविलेपीनामन्यतमां यथाग्निवलं पिबेत् ॥ ६१॥ ... गाधरः-पाठामित्यादि। पाठां यमानी विल्वशलाटश्च वर्णीकृत्य तक्रसंयुतं पातव्यम्। दुरालभां शृङ्गचेरं शुण्ठी पाठाञ्चेति त्रयं चीकृतं मुरया सह पातव्यम्। जम्ब्बाम्रयोरस्थ्नां मज्जानं विल्वशलाटु कपित्थं नागरश्च चूर्णीकृतमेकीकृत्य सुरामण्डेन पातव्यम् ॥ ६२ । ६३ ॥
गङ्गाधरः-एतानवेत्यादि। एतान् पाठादीन योगांस्वीन खड़ान् कारयेत् । तदयथा- सचुक्रधान्यानित्यादि। चुक्रमम्लवेतसं लोटकम् अम्लधान्यकचूर्ण
चक्रपाणिः-खड़ो व्याकृतः । अन्येऽपि वदन्ति–'पिशितेन रसस्तव यूपो धान्यैः खलः फलैः । मूलेश्च तिलककाम्ल-प्रायः काम्बलिकः स्मृतः' इति ॥ ६०-६४ ॥
For Private and Personal Use Only