________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म भध्यायः ] चिकित्सितस्थानम् । २७०१
सर्पिष्मत्या यवाग्वा वा वामनीयोपसिद्धया। वान्तोऽन्नकाले लघ्वन्नमाददीत सदीपनम् ॥ यवगोधूममाध्वीक-सिध्मारिष्टसुरासवान् । जाङ्गलानि च शूल्यानि सेवमानः कर्फ जयेत् ॥ ५७॥ श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति । कफप्रसेकं तं विद्वान् स्निग्धोष्णेनैव निर्जयेत् ॥ ३८॥ क्रिया कफप्रसेके या वम्यां सैव प्रशस्यते। हृद्यानि चानपानानि वातघ्नान्यगुरूणि च ॥ ५६ ॥
छईयेत्। अथवा सर्पिष्पत्या वामनीयद्रव्यसिद्धया यवाग्वा पेयामण्डविलेपीनामन्यतमया छईयेत्। सम्यग्वान्तौ यदाचरितव्यं तदाह-वान्तं इत्यादि। 'उक्तविधिना सम्यग्वान्तो यक्ष्मी अनकाले बुभुक्षायां जातायां सदीपन दीपनद्रव्यसाधितं लघ्वनमाददीत। तथा यवगोधूमविकारं माध्वी मधुकृतमद्य सिध्म सिध्मलसंज्ञ सन्धान विशेषं तथा चारिष्टसंशसन्धान. विशेष सुराश्चासवञ्च जाङ्गलमांसानां शूल्यानि शूलपकानि सेवमानः प्रसिच्यमानं कर्फ जयेत् ॥ ५७॥ - गङ्गाधरः-कफासेकस्यावस्थाविशेषप्रतिकारमाह- श्लेष्मण : इत्यादि । इलेष्मणोऽतिप्रसेकेन वायुर्यदि श्लेष्माणमस्यति क्षिपति तदा तं श्लेष्मपसेकं विद्वान् जानन् वैद्यः स्निग्धोष्णेन द्रव्येण निज्जयेत् ॥ ५८॥
गङ्गाधरः-यक्ष्मिणश्छदियेदि वर्त्तते तदा तचिकित्सामाह-क्रियेत्यादि। कफप्रसेके येयं क्रियोक्ता सैव क्रिया यक्ष्मिणो वम्यां प्रशस्यते। एवं यानि वातघ्नानि अगुरूणि चानपानानि वम्यां प्रशस्यन्ते ॥ ५९॥ । चक्रपाणिाः-वामनीयानि मदनफलादीनि । सदीपनम् इति दीपनशुण्ठ्यादिसाधितम् ॥५७१५८॥
चक्रपाणि:-वम्यां सैव प्रशस्यत इत्यत्र फासेको द्विविधः-स्वतन्त्रः कफकृतः तथा पातपराधीन उक्तः। एवं छहिमपि द्विधा विभज्य कफप्रसेकक्रियानुसारेण श्लेष्मप्रधानायां वमनादि, वातपधानायां स्निग्धसेवानुरूपा सा क्रिया शस्यत इति योज्यम् ॥ ५९॥
For Private and Personal Use Only