________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७००
चरक-संहिता। राजयक्ष्मचिकित्सितम् बलां स्थिरां पृश्निपर्णी वृहती सनिदिग्धिकाम्। साधयित्वा रसे तस्मिन् पयो गव्यं सनागरम् ॥ द्राक्षाखजरसपिभिः पिप्पल्या च शृतं सह । सनौद्र ज्वरकासघ्नं स्वयंञ्चैतत् प्रयोजयेत् ॥ ५४॥ आजस्य पयसश्चैवं प्रयोगो जाङ्गला रसाः। यूषार्थं चणका मुद्दा मुकुष्टाश्चोपकल्पिताः ॥ ५५ ॥ ज्वराणां शमनीयो यः पूर्वमुक्तः क्रियाविधिः । यक्ष्मिणां ज्वरदाहेषु ससर्पिष्कः प्रशस्यते ॥ ५६ ॥ कफप्रसेके बलवान् श्लैष्मिकश्छईयेन्नरः। पयसा फलयुक्तेन मधुकेन छ रसेन वा ॥ गङ्गाधरः-बलामित्यादि। वलादीनि पश्च द्रव्याणि प्रत्येकं समभागेन गृहीखाऽष्टगुणे जले पक्त्वा चतुर्थभागशेषे तस्मिन् रसे काथे चतुर्गुणे गव्यं पयोऽष्टभागैकमार्ग मिलितनागरद्राक्षाखज्जरगव्यधृतपिप्पलीनां दत्त्वा सहैकथ्यं शृतं क्षीरावशेषं पक्वं पूतं शीते मधु पयसः पादिकं दत्त्वा मिश्रयेदिति । तत् पयः प्रयोजयेत् ज्वरकासन्न स्वय्येञ्चेति। एवमाजस्य पयसश्च प्रयोगः कल्पितः स्यात्, तथा जाङ्गलमांसरसाः कल्पिताः स्युः, तथा यूषार्थ चणका मुदगा मुकुष्टकाश्च कल्पिताः स्युः॥५४॥ ५५॥
गङ्गाधरः-ज्वराणामित्यादि। ज्वरचिकित्सिते सर्वेषां स्वराणां यो यः शमनीयः क्रियाविधिः पूर्वमुक्तः, स शमनीयो विधिः ससर्पिष्कः सर्पिस्तत्र प्रक्षिप्य संयोज्य यक्ष्मिणां ज्वरदाहेषु प्रशस्यते॥५६॥
गङ्गाधरः-कफमसेक इत्यादि। यदि कफ आरयेनाधिकं प्रसिच्यते नरश्च यक्ष्मिपुरुषो बलवान् वर्तते, तदा स फलयुक्तेन मदनफलकल्कयुक्तेन पयसा कर्फ छईयेत् । अथवा मधुकेन रसेन यष्टीमधुकाथेन मदनफलकल्कयुक्तेन जलमेव द्रवं पठन्ति। अत्र क्षीरे क्वाथकल्कसाध्ये चतुर्गुणक्षीरात् क्वाथ्यादिद्वन्यञ्चाष्टभागेन झयम्। मधुकं प्रक्षेपार्थे योज्यम् ॥ ५३-५५ ॥
चक्रपाणिः-ज्वराणामित्याद्यावस्थिकं विधिमाह ॥ ५६ ॥
* मधुरणेति चक्रः।
For Private and Personal Use Only