________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः चिकित्सितस्थानम् ।
२६६४ शटीपुष्करमूलानां पिप्पलीत्रायमाणयोः। तामलक्याः किरातानां तिक्तस्य कुटजस्य च ॥ फलानां शारिवायाश्च सुपिष्टान् कर्षसम्मितान् । साधयेत् तु घृतप्रस्थं क्षीरद्विगुणितं भिषक् ॥ ज्वरं दाहं भ्रम कासमंसपार्श्वशिरोरुजम् । तृष्णाच्छदिमतीसारमेतत् सर्पियंपोहति ॥ ५२ ॥
गोक्षुराद्यघृतम् ॥ जीवन्ती मधुकं द्रानां फलानि कुटजस्य च । शटी पुष्करमूलञ्च व्याघ्रों गोक्षुरकं बलाम् ॥ नीलोत्पलं तामलकों त्रायमाणां दुरालभाम् । पिप्पलोश्च समं पिष्टा घृतं वैद्यो विपाचयेत् ॥ एतद् व्याधिसमूहस्य रोगेशस्य समुत्थितम् । रूपमेकादविधं सर्पिरमा व्यपोहति ॥ ५३ ॥
जीवन्त्यायघृतम्। रसे पूत क्षीरद्विगुणितं घृतप्रस्थञ्चेति सपादद्विगुणद्रवं वक्ष्यमाणानामेषां शव्यादोनां द्रव्यागां कल्कान् समावपेत् । किरातानां तिक्तस्य किराततिक्तस्य, कुटनस्य च फलानां कुटजफलानामिति। शव्यादीनां शारिवान्तानामष्टानां कर्षसम्मितान् सुपिष्टान् कल्कान् समावपेत्। इत्येवं घृतप्रस्थं साधयेत् । ज्वरमित्यादिनाशीः । गोक्षुराध घृतम् ॥ ५२ ॥
गङ्गाधरः--जीवन्तीमित्यादि। जीवन्त्यादिपिप्पल्यन्तं चतुद्देशद्रव्यं समानभागेन पिष्ट्वा कल्कीकृत्य चतुगुणे जले घृतमनुक्तखात् प्रस्थं वैद्यो विपाचयेत् । व्याधिसमूहस्य रोगराजस्य समुत्थितमेकादशविधमेतत् सर्पिव्यपोहति। कुटजस्य फलानि। जीवन्त्याद्य घृतम् ॥ ५३॥ दशगुणतोयेन वाथस्याल्पत्वं स्यात् । प्रस्थवृतात् तु दशगुणतोये दशभागावशिष्टे प्रस्थमानत्वं कषायस्य भवति, तञ्च जतूकर्णानुमतम् ॥ ५२॥
चक्रपाणि:--जीवन्त्यादि पूर्वयोगोक्तं क्षीरयुक्तमेव दवमिच्छन्ति। टीकाकृतास्तु बहवो
For Private and Personal Use Only