________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रसायनपाद १
२२७६
चरक-संहिता। क्षौद्रप्रमाणं स्नेहाई तत् सव्वं घृतभाजने । तिष्ठेत् संमूर्च्छितं तस्य मात्रां काले प्रयोजयेत् ॥ या नोपरुन्ध्यादाहारमेकं मात्रा जरां प्रति । षष्टिकः पयसा चात्र जीणे भोजनमिष्यते ॥ वैखानसा वालिखिल्यास्तथा चान्ये तपोधनाः। । रसायनमिदं प्राप्य छ बभूवुरमितायुषः॥ मुक्ता जीणं वय + श्चाग्रामवापुस्तरुणं क्यः। वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः॥
अत्रैव दद्यात्। ततस्तत्सर्वमौडम्बरे ताम्रमये पात्रं मृदुनाग्निना साध्यम् । आसन्नपाके तु तत्र इमानि मण्डूकपर्यादीनां दशानां द्रव्याणां चूर्णानि प्रत्येकं चतुःपलान् भागान् कृखा दापयेत्। अत्र मण्डकपर्णी दन्तिमूलं, कनक हेमचाम्पेयं नागकेशरपुष्पमिति यावत्। ततः पाकवित् तत् सर्च लेह्य लेहाहंमदग्धश्च ज्ञाखावतारयेत् । ततः शीतं यदा भवति तदा स्नेहार्द्धमानेन तैलघृतयोरर्द्धमानेन चत्वारिंशच्छरावमितेन क्षौद्रेण संसृजेत् मेलयेत्। ततस्तत्सर्व सम्मूर्च्छितं दया संघटनेन मिश्रितं कृखा मृभाजने तिष्ठेत स्थापयेत् । एवं प्रस्तुतस्य तस्यौषधस्य मात्रां तां काले उपयोगकाले प्रातःकाले प्रयोजयेत्, कालऽप्यनुक्ते दिवसस्य पूर्व मित्युक्तेः। या मात्रा जरां प्रति जीर्णकालपर्यन्तमेकं प्रथमाहारकाले क्षुधया आहारं नोपरुन्थ्यादाहारोपरोधं न कुर्य्यात्। ततः प्रथमाहारकालोत्तरकालम् अत्रौषधे जीर्णे सति पष्टिक
ओदनः पयसा गोदुग्धेन तेन भोजन मिष्यते, इत्थञ्चैककालमाहारमपराह्न कुय्यादिति भावः। एवं यावत् नैरुज्यबलवर्णादिसम्पत् प्रयोज्यमिति । अस्याशिषमाह-पुराकल्पेन वैखानसा इत्यादि। वैखानसादयो मुनयो रसायनमिदं प्राप्यामितायुयो बभूवुः। जीर्णश्च वयः जीर्णवपुः मुक्तवा त्यत्त्वाग्रंत्र श्रेष्ठं वातातपवर्षादिसहिष्णु तरुणं क्योवपुरवापुः वीतन्द्रादयश्च
* प्राश्येति वा पाठः।
+ वपुरिति क्वचित पठ्यते।
For Private and Personal Use Only