SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः ] चिकित्सितस्थानम् । २२७७ मेधास्मृतिबलोपेताश्चिररात्र तपोधनाः। ब्राह्मां तो ब्रह्मचर्य चेरुश्चात्यन्तनिष्ठया ॥ रसायनमिदं ब्राह्मामायुष्कामः प्रयोजयेत् । दीर्घमायुर्वयश्चाग्रा कामांश्चेष्टान् समश्नुते ॥ २२॥ ___इति ब्राह्मारसायनप्रयोगः।१। यथोक्तगुणानामामलकानां सहस्र पिष्टवा स्वेदनविधिना ® पयस उष्मणा सुखिन्नमनातपशुष्कमनस्थि चूर्णयेत्। तदामलकसहस्रस्वरसारिपीतं, + स्थिरा-पुनर्नवा-जीवन्ती-नागबलाब्रह्मसुवर्चला- मण्डूकपर्णी- -शतावरी-शङ्खपुष्पी-पिप्पली-वचासन्तश्चिररात्रं चिरदिनमत्यन्तनिष्ठया ब्राह्म तपो ब्रह्मवर्यश्च चेरुराचरितवन्त इत्यर्थः। ब्राह्मारसायनं ब्राह्मातपश्चारणहेतुलात् ॥२२॥ गङ्गाधरः-प्रयोगान्तरमाह-यथोक्तेत्यादि। यथोक्तगुणानामिति ब्राह्मरसायनगुणांस्तानि कर्माणीत्यादुप्रक्तानामाकृतिमानेन सहस्र दशशतगुड़कं पिष्टा गोदुग्धं वृहद्भाण्डे दत्वा तद्भाण्डमुग्वे वस्त्र बद्धा तदुपरि तदामलकं दत्वा किंवा वृहद्भाण्डे दुग्धं दत्वा तद्भाण्ड पुरखेप्रचुरच्छिद्रयुक्तं भाण्डमन्यत् निधाय तत्र भाण्डे तदामलकं दत्वा चुल्ल्यां निधायाग्निनाधस्ताज्ज्वाला देया। इत्येवं पयस उष्मणा दुग्धवाष्पेण स्वेदनविधिना सुस्विन्नं तदामलकमनातपशुष्कं छायायां संशोष्य निरस्थि अस्थीनि त्यक्त्वा चूर्णयेत्। तदामलकसहस्रचूर्ण स्वरसपरिपीतं तस्यामलकान्तरसम्भूतस्य स्वरसः परि सर्वतोभावेन भावनाविधिना पीतो येन तत् तथा, अर्थात् आमलकस्य रसेन परिप्लाव्य अनातपे संशोष्य पुनस्तद्रसेन परिप्लाव्यानातपे संशोष्य रसं सप्तधा भावितं तत्, स्थिरादीनां विनीयेति प्रक्षिप्य ; प्लवः कैवर्तमुस्तकम् ; कनकं नागकेशरम् ; स्वक् गुड़त्वक ; औदुम्बर इति ताम्रमये ; स्नेहार्द्धमिति सर्पिस्तैलार्द्धम् । एकमनपराह्निकमाहारम् ॥ २२॥ चक्रपाणिः-पिष्ठस्वेदनविधिनेति यथा पिष्टकं तोयपरिपूरितपातपरिदत्तं तृणादिसंस्थितं स्वेद्यते, तथा तत् स्वेदनीयमित्यथः । स्वरसपरिपीतमिति स्वरसभावितम् । ब्रह्मसुवर्चलाद्यौषधान्यायुर्वेद । पिष्टम्वेदनविधिनेत्यन्यस पाठः । तदामलकसहस्रम् इति बहुषु ग्रन्थेषु पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy