________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
२६६६
चरक-संहिता। राजयक्ष्मचिकित्सितम् भक्तस्योपरि मध्ये वा यथानाभ्यवचारितम् । रानाघृतं वा सक्षीरं सक्षीरं वा बलाघृतम् ॥ ४४ ॥ लेहान् कासापहान् स्वर्यान् श्वासहिकानिवर्हणान्। शिरःपावीसशूलनान् स्नेहांश्चातः परं शृणु ॥ ४५ ॥ घृतं खजरमृद्वीका-मधुकैः सपरूषकैः।। सपिप्पलीकैवैखर्य-कासश्वासनिवर्हणम् ॥ ४६॥ दशमूलभृतात् चीरात् सपियंदुदियानवम् । सपिप्पलीकक्षौद्रं तत् परं स्वरविबोधनम्। शिरपावीसशूलघ्नं कासश्वासज्वरापहम् ॥४७॥
त्रिगुणेन मांसरसेन सिद्धं घृतं बहुशः पुनःपुनः औत्तरभक्तिकं भोजनादुत्तरं प्रयुज्यमानं शिरःपाश्चांसशूलघ्नं कासश्वासनिवईणमिति। घृतान्तरमाहबलागर्भमित्यादि। बलागर्भ बलाकल्लं घृतं चतुर्गुणजलसिद्धं भक्तस्योपरि मध्ये वा यथामि भक्षितमेतान् शिरपाश्वांसशुलकासश्वासान् रोगान् सद्यो वै प्रबाधते। एवं रास्नाघृतं सक्षीरं रास्नाकल्कः क्षीरं चतुर्गुणं भक्तान्तमध्येऽभ्यवहृतमेतान् रोगान् प्रबाधते। एवं बलाघृतं सक्षीरं बलाकल्कः क्षी चतुगुणं सिद्धं यथान्यभ्यवहतमेतान् रोगान् प्रबाधते ॥४४॥ . गङ्गाधरः-अतः परं लेहानाह-लेहानित्यादि। कासादिनान् लेहान् स्नेहांश्चातः परं शृण॥४५॥
गङ्गाधरः-घृतमित्यादि। खज्जूरादिपिप्पल्यन्तैः कल्कैश्चतुगु णजले शृतकाथे चतुणे सिद्धं घृतं वैस्वादिनिवहणम् ॥४६॥
गङ्गाधरः- दशमूलेत्यादि। दशमूलं कल्कीकृत्य दुग्धं पक्तव्यं, पकात्
यथा बलाया एवं करके दशमूलस्य क्वाथो ज्ञेयः। किंवा दशमूलेन पयसेति पाठः। तेन दशमूलमिटेन श्रीरेणेत्यर्थः। रास्नाघृतं वा रास्नाक्षीरं रोगानेतान् प्रवाधत इति योजना। तथा सलापता बलाक्षीरच प्रवाधते इति योजना। रास्नाघृतं कासे वक्ष्यमाणं बलाघृत वातरके वक्ष्यमाणं तत् श्रीरेण महोत्पलमेतान् रोगान् प्रबाधत इत्याचार्यो वक्ष्यति ॥ ३९-४६ ॥
पणापाणिः-सपिप्पलीकं सौमित्यत्र पिप्पलीमौद्रयोः प्रक्षेप्यावं शेयम् ॥ ७ ॥
For Private and Personal Use Only