________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः |
चिकित्सितस्थानम् ।
पञ्चभिः पञ्चभिर्मूलेः शृताद् यदुदियाद् घृतम् । पञ्चानां पञ्चमूलानां रसे नीरचतुर्गुणे । सिद्धं सर्पिर्जयत्येतद् यक्ष्मणः सप्तकं बलम् ॥ ४८ ॥ खर्जूरं पिप्पलो द्राना पथ्या शृङ्गी दुरालभा । त्रिफला पिप्पली मुस्तं शृङ्गाटगुड़शर्कराः ॥ वीराराटी पुष्कराख्यं सुरसः शर्करा गुड़ः । नागरं चित्रको लाजाः पिप्पल्या मलकं गुड़ः ॥ श्लोकान् विहितानेतान् लिहेन्ना चौद्रसर्पिषा । कासश्वासापहान् स्वर्य्यान् पार्श्वशूलापहांस्तथा ॥ ४६ ॥
२६६७
तत्क्षीरान्मथितात् यनवनीतं नवमुदियादुत्तिष्ठेत् तन्नवं सर्पिः पिप्पलीचणेमधुयुक्तं स्वरविबोधनं परमुत्कृष्टं शिरःशूलादिघ्नं कासाद्यपहरमिति ॥ ४७ ॥
गङ्गाधरः - पञ्चभिरित्यादि । पञ्चभिः पञ्चमूलैः कल्कीकृतः शृतात् क्षीराद यघृतमुदियात्, तद् घृतं पुनः पञ्चपञ्चमूलकाये साहचर्याच्च गुणेोरचणे सिद्धमेतत् सप्तकं यक्ष्मणो बलं स्वरभङ्गशिरःशूलपार्श्वशूलांसशुल कासश्वासज्वरं जयतीति ॥ ४८ ॥
गङ्गाधरः - खज्जरमित्यादि । खज्जरादिदुरालभान्त एको लेहः । त्रिफलादिशकेरान्तो द्वितीयः । वीरादिगुहान्तस्तृतीयः । नागरादिगुड़ान्तचतुथः । शृङ्गाटश्च गुड़श्च शकंरा चेति । शकरा गुड़ इति पृथक् पदम् ।। ४९ ।।
For Private and Personal Use Only
चक्रपाणिः - पञ्चभिः पञ्चमूलैर्वा यद् धृतमुदियात् तत् सपिप्पलीकं सक्षौद्र' स्वरबोधनमित्यादि • योजना । पञ्चानामित्यादिना योगान्तरमाह । क्षीरचतुगुण इति क्षीरेण समं घृतम्, पञ्चानां पञ्चमूलीनां रसचतुर्गुणेन, पञ्चमूलक्वाथस्त्रिगुणः घृतसमञ्च क्षीरं ज्ञेयम् । उक्तं हि जतूकर्णे - दशमूलश्टतक्षीराज्जातं सर्पिर्नवञ्च पिप्पलीमधुयुक्तं यत् पञ्चपञ्चमूलक्कथितादुत्थितञ्च यत् कथिततुल्यपयस्के पक्वमिति सप्तकं स्वरबोधनमित्यादि । फलश्रुतौ यक्ष्मणः सप्तकं बलम् इत्यनेन ये सप्त गदाः पठितास्ते ज्ञेयास्तेषु च हिक्का पठिता सा च राजयक्ष्मलक्षणेषु यद्यपि न पठिता तथाप्युपद्रवरूपा ज्ञेया । पुष्कराख्यं पुष्करमूलम् ॥ ४८ ॥ ४९ ॥
1