________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः चिकित्सितस्थानम्।
२६६५ शोषी मुञ्चति गात्राणि पुरीषत्रसनादपि। अवलापेक्षिणों मात्रां किं पुनर्यो विरिच्यते ॥४१॥ योगात् संशुद्धकोष्ठानां कासे श्वासे स्वरक्षये। शिरपासशूलेषु सिद्धानेतान् प्रयोजयेत् ॥ ४२ ॥ बलाविदारिंगन्धाभ्यां पिप्पल्या मधुकेन च । सिद्धं सलवणं सपिनस्यं स्वय॑मनुत्तमम् ॥ प्रपौण्डरीकं मधुकं पिप्पली वृहती बला। साधितं क्षीरसर्पिश्च तत् स्वय्यं नावनं घृतम् ॥ ४३ ॥ शिरःपावीसशूलघ्नं कासश्वासनिवर्हणम् । प्रयुज्यमानं बहुशो घृतमौत्तरभक्तिकम् ॥ दशमूलेन पयसा सिद्धं मांसरसेन च।
बलागर्भ घृतं सद्यो रोगानेतान् प्रबाधते॥ भवति। कस्मात् ? तत्राह-शोषीत्यादि। शोषी राजयक्ष्मी पुरीषस्रसनात् अपि गात्राणि मुश्चति म्रियते। तत्राबलापेक्षिणी मात्रां यो यक्ष्मी विरिच्यत तस्य पुनः किं ? –स तु गात्राणि झटित्येव मुञ्चति । तस्माद बलापेक्षिणी मात्रां यक्ष्मी विरिच्येत ॥४१॥
गङ्गाधरः-योगादित्यादि। योगात् सम्यग्योगात् दोषाधिकानां यक्ष्मिणां स्नेहस्वेदोपपन्नानां वमनविरेचनाभ्यां संशुद्धकोष्ठानां कासादिषु पञ्चसु एतान् सिद्धान् वक्ष्यमाणान योगान् प्रयोजयेत् ॥४२॥
गङ्गाधरः-तान् सिद्धान् योगानाह-बलाविदारीत्यादि। बलाविदारिगन्धाशालपर्णीपिप्पलीयष्टीमधुकं सैन्धवञ्चेत्येतैः सिद्धं सर्पिर्नस्यं कृतं स्वयं भवति । प्रपौण्डरीकमित्यादि । क्षीरसपिः क्षीरोत्थनवनीतजातसपिः॥४३॥ __ गङ्गाधरः-शिरःपा सेत्यादि। दशमूलेन कल्केन पयसा घृतसमानेन
चक्रपाणिः-यनकर्षणमित्यनेन मृदुवमनविरेचन यन्न कर्षणाय इति दर्शयति। प्रपौण्डरीकम् इत्यादि क्षीरं द्रवम् । ये तु क्षीरसपिरित्येकपदेन पठन्ति ते क्षीरोत्थं सर्जिलेनव पाचयन्ति । घृतञ्चौत्तरभक्तिकमित्युक्तमेव घृतं भक्तोत्तरं शिरःशूलहरं भवति। दशमूलेनेरयत्रावान्तरसाहचर्य्याद्
For Private and Personal Use Only