________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६४
चरक-संहिता। [राजयक्ष्मचिकित्सितम् प्रदेहः सधृतश्चेष्टः पद्मकोशीरचन्दनः।। दुर्वामधुकमञ्जिष्ठा-केशरैर्वा घृतप्लुतैः॥ प्रपौण्डरीकं पद्मस्य केशरं नीलमुत्पलम् । ॐ कशेरुकाः पयस्या च ससर्पिष्कं प्रलेपनम् ॥ ३६॥ चन्दनाय न तैलेन शतधौतेन सर्पिषा। अभ्यङ्गः पयसा सेकः शस्तश्च मधुकाम्बुना ॥ माहेन्द्रण सुशीतेन चन्दनादिश्रुतेन वा । परिषेकः प्रयोक्तव्य इति संशमनी क्रिया ॥४०॥ दोषाधिकानां वमनं शस्यते सविरेचनम् । स्नेहस्वेदोपपन्नानां सस्नेहं यन्न कर्षणम् ॥
गङ्गाधरः-तदधिरनिहरणानन्तरं प्रदेहश्च देय इति तदाहप्रदेह इत्यादि। पद्मकोशीरचन्दनः सघृतः प्रदेहश्चेष्टः। अथवा घृतप्लुतैः दुर्चादिभिः प्रदेह इष्टः। एवं प्रपौण्डरीकादि सपिरन्तं द्रव्यं प्रलेपनमिष्टम् । पुण्डरोयकाष्ठ-पद्मकिञ्जल्क-नीलोत्पल-कशेरुकाः पयस्या क्षीरकाकोली घृतश्च इत्येतेलेपनं शोणितनिहरणानन्तरमिष्टम् ॥ ३९ ॥
गङ्गाधरः---अथ संशमनक्रियामूत्राण्याह-चन्दनादेप्रनेत्यादि। ज्वराधि. कारेऽभिहितेन चन्दनाय न तैलेनाभ्यङ्गः। शतधौतेन सर्पिषा वाभ्यङ्गः शस्तः। पयसा सेकः शस्तः । मधु काम्बुना सेकश्च शस्तः। सुशीतेन माहेन्द्रेण जलेन सेकश्च शस्तः । चन्दनादिश्तेन वा घराधिकारोक्तचन्दनादिद्रव्यशृतेन जलेन वा परिषेकः प्रयोक्तव्यः। इति राजयक्ष्मणः प्रतिश्यायादीनां संशमनी क्रिया॥४०॥ .. गङ्गाधरः-अथ राजयक्ष्मणः पुनरतिशयदोषे चिकित्सितमाह-दोषाधिकानामित्यादि। दोषाधिकानां यक्ष्मिणां स्नेहस्वेदोपपन्नानां सविरेचनं वमनं शस्यते । आदौ स्नेहकम्मस्वेदकर्मभ्यामुपपाद्य सस्नेहं वमनं कारयेत्, ततः पर सस्नेहश्च विरेचनं कारयेत् । यद वमनं विरेचनश्च न शरीरस्य कर्षणं ___ * प्रपौण्डरीकनिर्गुण्डी-पद्मकेशरमुत्पलम् । इति चक्रस्तः पाठः ।
For Private and Personal Use Only